भारतीयरेलविभागः उच्चवेगयुक्तानां रेलयानानां प्रारुपस्य निर्माणस्य च कार्यं आरव्धवान्
हिमसंस्कृतवार्ताः। भारतीयरेलविभागः उच्चवेगयुक्तानां रेलयानानां प्रारुपस्य निर्माणस्य च कार्यं आरब्धवान् इति लोकसभायां सर्वकारेण उक्तम्। एकस्य प्रश्नस्य लिखितोत्तरे रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् इन्टिग्रेल् कोच फैक्ट्री इति भारत अर्थ मूवर्स लिमिटेड इत्यस्य सहकारेण उच्चगतिरेलसमूहस्य प्रारुपं रचयित्वा निर्माणं कुर्वती अस्ति।
अस्य प्रारुपवेगः प्रतिघण्टां २८० किलोमीटर् भविष्यति । अस्य निर्माणव्ययः प्रतिसंकुलः प्रायः २८ कोटिरूप्यकाणि भवति, यत् अन्येषां रेलसंकुल-समूहानां तुलनायाम् अत्यन्तं प्रतिस्पर्धात्मकम् अस्ति । अन्यस्य प्रश्नस्य उत्तरं दत्त्वा रेलमन्त्री उक्तवान् यत् वंदेभारत एक्स्प्रेस् रेलयानानां वेगं न्यूनीकर्तुं कोऽपि प्रस्तावः नास्ति।
भारतीयरेलविभागः उच्चवेगयुक्तानां रेलयानानां प्रारुपस्य निर्माणस्य च कार्यं आरव्धवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment