संसदि विपक्षदलस्य कृत-कोलाहललस्य मध्ये उभयोः सदनयोः उपवेशनम् गतदिने आदिनं यावत् स्थगितम्
एकं विशिष्टं- व्यवसायिसमूहं विरुध्य उत्कोचस्य आरोपान् अन्यान् च प्रसङ्गान् आलक्ष्य विपक्षदलस्य कृत-कोलाहललस्य मध्ये संसद उभयोः सदनयोः उपवेशनम् गतदिने आदिनं यावत् स्थगितम् जातम्। शीतकालिकसत्रस्य प्रथमदिवसे स्थगनस्य अनन्तरं पादोनद्वादशवादने यदा राज्यसभायाः उपवेशनं पुनः समाब्धम् तदा सभापतिः जगदीप धनखडः विपक्षिदलैः आग्रहं कृतवान् यत् ते सदनस्य कार्याचरणाय सहयोगं यच्छन्तु इति। परञ्च कोलाहलमध्ये सदनस्य उपवेशनं सम्पूर्णदिनं यावत् स्थगितम्। सभापतिः उक्तवान् यत् प्रदत्तानि प्रतिवेदनानि निर्देशानाम् अनुरूपाणि नैव सन्ति इति। विपक्षस्य नेता मल्लिकार्जुन खड़गे व्यवसायिसमूहे कथित-उत्कोचानाम् आरोपाणां प्रसङ्गेषु वाचनस्य प्रयासं कृतवान् परञ्च असौ अनुमतिं न प्राप्तवान्। अत्रावधौ कांग्रेस- वामदल- द्रमुक- राजद- आपदलानां सदस्यै: कोलाहलं कृतम् येन हि कार्याचरणं पादोन- पञ्चवादनपर्यन्तं प्रचालितम् एव। तत्रैव लोकसभायां कार्याचरणस्य अनन्तरं मध्याह्ने द्वादशवादने कार्याचरणं समारभत तावत् कांग्रेस- समाजवादीपार्टी- द्रमुकदलानां सदस्याः उत्कोचम् आधृत्य समवेतस्वरेण कोलाहलं समाचरितवन्तः। कोलाहलमध्ये पीठासीन अधिकारी सदनं स्थगितं कृतवान्। सत्रस्य प्रथमदिने अद्य साम्प्रतिके समये दिवंगताभ्यां सदस्याभ्यां वसन्तराव चव्हाण- शेख- नूरुल- इस्लाम- इत्येताभ्यां श्रद्धाञ्जलिः प्रदत्ता। उभयोः सदनयोः उपवेशनं बुधवासरे भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी आशां प्रकटितवान् यत् संसदः शीतकालिकं सत्रं लाभकारी भविष्यति अपि च रचनात्मकं विचारविमर्शम् अपि भविष्यति। संसदः शीतकालिक-सत्रात् पूर्व वार्ताहरान् सम्बोधयन् श्रीमोदी उक्तवान् यत् इदं सत्रं संविधानस्य पञ्चसप्तति- वर्षाणां सम्पूर्तिदिवसस्य कारणेन अपि विशिष्टं भविष्यति।
श्रीमोदी प्रोक्तवान् यत् इदं सत्रम् लोकतन्त्राय गरिम्णः प्रपूरितम् ऐतिहासिकं भविष्यति। विपक्षस्य आलोचनां कुर्वन् प्रधानमन्त्री अग्रे उक्तवान् यत् जनताद्वारा अस्वीकृता। प्रचिताः च जनाः अव्यवस्थाम् एव जनयन्ति। श्रीमोदी अवदत् यत् विश्वमञ्चे देशाय अद्य यः दुर्लभः अवसरः प्राप्त तस्य लाभः स्वीकरणीयः।
संसदि कोलाहले उभयोः सदनयोः उपवेशनम् आदिनं यावत् स्थगितम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment