संविधानं देशस्य जनैः सम्बद्ध अस्ति समाजस्य च प्रत्येकवर्गः अस्मिन् विश्वासं करोति -लोकसभा अध्यक्षः
लोकसभा अध्यक्षः ओम बिरलाः केषाञ्चित् वर्गाणाम् आरोपाणां खण्डनं कृतवान् यत् संविधानं सङ्कटे अस्ति इति असौ अवदत् यत् अत्र संकीर्ण-मानसिकता न स्वीकरणीया। एकस्मिन् विशिष्टे साक्षात्कारे श्रीबिरला प्रोक्तवान् यत् संविधानं देशस्य जनैः सम्बद्ध अस्ति समाजस्य च प्रत्येकवर्गः अस्मिन् विश्वासं करोति इति।
प्रशासनेन भारतस्य संविधानस्य स्वीकरणस्य पञ्चसप्ततितमवर्षस्य स्मणार्थं वर्षपर्यन्तं उत्सवस्य घोषणा कृता। अग्रिमे वर्षे नवम्बरमासस्य षड् विंशति दिनाङ्क पर्यन्तं सम्पूर्णदेशे उत्सवः अयं प्रचलिष्यति। अवधेयं वर्तते नवचत्वारिंशत् अधिक- नवदशशततमे वर्षे नवम्बरमासस्य षड्विंशति दिनाङ्के भारतस्य संविधानसभा संविधानम् अङ्गीकृतवती। यत् पञ्चाशत् अधिक नवदशशततमे वर्षे जनवरीमासस्य षड्विंशे दिनाङ्के प्रवृतम् अभवत्।
संविधानं देशस्य जनैः सम्बद्ध अस्ति समाजस्य च प्रत्येकवर्गः अस्मिन् विश्वासं करोति -लोकसभा अध्यक्षः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment