Kangana Ranaut: भाजपा-सांसद कंगनारणौत अवदत्- देशविघटनस्य वार्तां कुर्वतां जना: पाठं पाठितवन्त:
हिमसंस्कृतवार्ता: – कुल्लू:।
भाजपाया: सांसद कङ्गनारणौत अवदत् यत् ये देशविघनस्य विषये वदन्ति स्म: तेभ्य: जनाः उपयुक्तं पाठं पाठितवन्तः। सा महाराष्ट्र- विधानसभानिर्वाचनस्य उल्लेखं कृतवती, यत्र तस्य दलनेतृत्वेन महायुतिगठबन्धनेन काङ्ग्रेसनेतृत्वस्य एम. वी. ए. इति सङ्घटनंज्ञपराजितम्। प्रधानमन्त्रिणः नरेन्द्रमोदिन: नेतृत्वस्य प्रशंसाम् कुर्वन्ती अभिनेत्री- राजनेत्री अवदत् यत् सः देशस्य उद्धाराय जातः, सः अजेयः इति मन्यते। नवदिल्लीं प्रति प्रस्थानात्पूर्वं भुन्तरविमानस्थानके पत्रकारैः सह भाषमाणा रणौत अवदत् यत् महाराष्ट्रस्य जनाः विकासाय, स्थिरसर्वकाराय च मतदानं कृतवन्तः। महायुत्या: निर्वाचनसफलतायाः कृते मोदी इत्यस्मै अभिनन्दनं कृत्वा महाराष्ट्रस्य अग्रिमस्य मुख्यमन्त्रिण: निर्णयः भाजपाशीर्षनेतृत्वं करिष्यति इति उक्तवती। मण्डी-सांसद अवदत् यत् प्रचारकाले सा दृष्टवती यत् प्रत्येकं बालकः मोदी- मोदी- घोषान् उत्थापयन्ति स्म। भाजपा एका कार्यमुद्रा अर्थात् ब्राण्ड अस्ति अद्य भारतस्य जनाः अस्मिन् विश्वासं कुर्वन्ति।
Kangana Ranaut: भाजपा-सांसद कंगनारणौत अवदत्- देशविघटनस्य वार्तां कुर्वतां जना: पाठं पाठितवन्त:
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment