संबंध-विच्छेदं (तलाक) इत्यस्य वार्ताया: मध्ये अभिषेकः ऐश्वर्याम् धन्यवादं ददाति
वार्ताहर: – जगदीश डाभी (मुम्बई)
बॉलीवुड-अभिनेता अभिषेक बच्चनः अद्यकाले ‘वांट टू टॉक’ इति चलच्चित्रस्य कारणेन वार्तापत्रेषु वर्तते । अधुना एव एतत् चलच्चित्रं प्रदर्शितं जातम् । अस्मिन् चलच्चित्रे अभिषेकः अतीव उत्तमं कार्यं कृतवान् । सः बहु प्रशंसितः अस्ति। परन्तु बक्स् आफिस इत्यत्र अस्य चलच्चित्रस्य बहु उत्तमं प्रतिसादं न प्राप्तम् । अद्यकाले अभिषेकबच्चनः स्वस्य चलच्चित्रस्य प्रचारं निरन्तरं कुर्वन् अस्ति। जनसंचार-साक्षात्कारे अभिषेकः स्वपत्न्याः ऐश्वर्यां धन्यवादं कृतवान् अस्ति। अभिषेक-ऐश्वर्यायोः संबंध-विच्छेदम् इत्यस्य सूचनाः किञ्चित्कालात् प्राप्यन्ते । यद्यपि तौ अद्यापि संबंध-विच्छेदं (तलाक) न प्राप्तवन्तौ। एतावता उभौ अस्मिन् विषये किमपि न उक्तवन्तौ। उभौ चिरकालात् एकत्र न दृष्टौ। अधुना अभिषेकः ऐश्वर्यस्य विषये कथितवान् अस्ति। अद्यैव अभिषेकः द हिन्दु इति पत्रिकायाः साक्षात्कारं कृतवान् । एतस्मिन् समये अभिषेकः मातुः बलिदानस्य विषये कथितवान् । माता परिवारस्य कृते स्वस्य करियरस्य त्यागं करोति, पिता तु कार्यं करोति । अभिषेकः अवदत्, “मम गृहे अहं भाग्यशाली अस्मि यत् बहिः गत्वा चलच्चित्रनिर्माणस्य अवसरः प्राप्यते किन्तु अहं जानामि ऐश्वर्या आराध्यायाः सह गृहे अस्ति तथा च अहं तस्याः कृते बहु धन्यवादं ददामि परन्तु बालकाः तथैव न पश्यन्ति इति मन्ये।