गुयानादेशस्य संसदं सम्बोधयिष्यति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्री नरेन्द्रमोदी गतसायंकाले जॉर्जटाउननगरे गुयानादेशस्य राष्ट्रपतिना डॉ. मोहम्मद इरफान अली इत्यनेन सह वार्तालापं कृतवान्। वार्तायाः अनन्तरं अनेकानि सन्धिपत्राणि हस्ताक्षरितानि अभवन्। प्रधानमन्त्री त्रिदिवसीययात्रार्थं गुयानादेशं सम्प्राप्तवान्। तत्र तस्य स्वागतं विमानस्थानके एव स्वयं राष्ट्रपतिना अली इत्यनेन द्वादशतोप्यधिकैः मन्त्रिमण्डलमन्त्रिभिः सह कृतम्। प्रधानमन्त्री मोदी द्वितीयकैरिकॉम- भारतशिखरसम्मेलने अपि भागं ग्रहीष्यति, कैरिकॉम-सदस्यदेशानां नेतृभिः सह च उपवेशनं करिष्यति, यद्धि भारतस्य क्षेत्रैः समं दीर्घकालिकमैत्री अपि अधिकं वर्धयितुं शक्यते। अद्य प्रधानमन्त्री गुयानादेशस्य संसदं सम्बोधयिष्यति। सः भारतीयप्रवासिनाम् सभां अपि सम्बोधयिष्यति। भारतस्य गुयानादेशेन सह स्वास्थ्य- संपर्क- नवीकरणीयशक्ति जल- चेत्यादिषु क्षेत्रेषु दीर्घकालीना विकासात्मिकी सहभागिता अस्ति। यात्रावधौ गुयानादेशः प्रधानमन्त्रिणे नरेंद्रमोदिने स्वस्य सर्वोच्चं राष्ट्रियपुरस्कारं “द ऑर्डर ऑफ एक्सीलेंस” इति प्रदास्यति। बार्बाडोस प्रधानमन्त्रिणे बार्बाडोस इत्यस्य-ऑर्डर ऑफ फ्रीडम् इति प्रतिष्ठितं मानदपुरस्कारं प्रदास्यति। कतिपयदिनानि पूर्वं डोमिनिकादेशेन श्रीमोदिनः कृते सर्वोच्चः राष्ट्रियपुरस्कारः- “डोमिनिका अवॉर्ड ऑफ ऑनर पुरस्कारः” अपि घोषितः आसीत्।
गुयानादेशस्य संसदं सम्बोधयिष्यति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment