CM Sukhu : वृद्धानां चिकित्सायाः कृते वैद्याः- परिचारिका: गृहेषु आगमिष्यन्ति मुख्यमन्त्रिणा शीघ्रमेव योजनाम् आरब्धुम् आदेश: दत्त:
हिमसंस्कृतवार्ता: – शिमला। अधुना हिमाचले ७० वर्षाणाम् उपरि वृद्धाः जनाः स्वद्वारे एव चिकित्सां प्राप्नुयुः। स्वास्थ्यविभागाय दूरभाषेण सूचनां दत्त्वा चल-एम्बुलेन्सं गृहं गमिष्यति। तत्र वैद्यः, औषधविक्रेता, परिचारिका: च भविष्यन्ति। अस्मिन् चिकित्सायाने औषधानि, आक्सीजन- सिलिण्डर- आदीनि आवश्यकानि उपकरणानि अपि भविष्यन्ति। स्थले एव चिकित्सां कृत्वा यदि वैद्यः मन्यते यत् रोगी चिकित्सालये प्रवेशः आवश्यकः इति तर्हि सः अपि सह आनयिष्यते। स्वास्थ्यविभागात् प्राप्तसूचनानुसारं रोगिणां द्वारे अपि परीक्षणं करिष्यते।
तस्य प्रतिवेदनं गृहम् ऑनलाइन प्रेषितं भविष्यति। एतदर्थं रोगी अथवा तस्य बन्धुजनस्य मोबाईलसंख्या गृहीता भविष्यति। मुख्यमन्त्री सुक्खुः स्वास्थ्यविभागं शीघ्रमेव एतां योजनाम् आरब्धुम् आह। स्वास्थ्यविभागस्य दलानि समीपस्थात् चिकित्सालयात् मण्डलस्य जनानां गृहेषु प्रेषिताः भविष्यन्ति। येषु क्षेत्रेषु पंचायतेषु च मार्गस्य सुविधा अस्ति तेषु एव एषा सुविधा उपलब्धा भविष्यति। मुख्यमन्त्री नरेशचौहानस्य प्रधानमीडियापरामर्शक: चिकित्सां औषधं च निःशुल्कं दीयते इति उक्तवान् यत् मुख्यमंत्री सुक्खुः विभागाय अस्याः दिशि कार्यं कर्तुं आह।