बद्रीनाथधामस्य द्वारं सेनायाः वाद्यायन्त्रैः भक्तिधुनैः च शिशिरस्य कृते पिहिताः
हिमसंस्कृतवार्ताः। उत्तराखण्डस्य चमोलीमण्डले स्थितस्य विश्वप्रसिद्धस्य बद्रीनाथधामस्य द्वारं सेनायाः वाद्यायन्त्रैः भक्तिधुनैः च गतरात्रौ विध्यानुगुणं शिशिरस्य कृते पिहिताः अभवन्। अनेन सह अस्मिन् वर्षे चतुर्धामयात्रा अपि समाप्ता । द्वाराणि पिधानात् पूर्वं बद्रीनाथधामः १५ क्विन्टलपुष्पैः अलङ्कृतम् । बद्रीनाथधामं द्वारं पिहितावसरं द्रष्टुं बहुसंख्याकाः भक्ताः प्राप्ताः । अस्मिन् वर्षे १४ लक्षं २५ सहस्राधिकाः भक्ताः बद्रीनाथधामस्य भ्रमणं कृतवन्तः।
बद्रीनाथधामस्य द्वारं सेनायाः वाद्यायन्त्रैः भक्तिधुनैः च शिशिरस्य कृते पिहिताः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment