International Lavi Fair : अन्ताराष्ट्रीयलवीमेलापके मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना कृतं वस्तूनां क्रयणम्
हिमसंस्कृतवार्ता: – रामपुरम्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः रामपुरे लवीमेलायां ८९०० रुप्यकाणां क्रयणं कृतवान्। अन्ताराष्ट्रीय- लवीमेला- समापनसमारोहे भागं गृहीत्वा मुख्यमन्त्री अस्मिन् अवसरे स्थापितानां विविधानां प्रदर्शनीनां स्तम्भानां निरीक्षणं कृतवान्। मुख्यमन्त्री हस्तशिल्पपदार्थानां, शुष्कफलानां च स्तम्भे स्थगितवान्।
सः महिलाविक्रेतुः उत्पादानां विषये सूचनां प्राप्य एककिलोग्रामं अक्षोटं (अखरोट), एकम् ऊर्णकम्बलं (दोहड़ू) च क्रीतवान्। मुख्यमन्त्री गूगल- पे- माध्यमेन कम्बलस्य कृते ८,००० रूप्यकाणि, अक्षोटस्य कृते ९०० रूप्यकाणि च दत्तवान्। मुख्यमंत्री सुखविंदरसिंहसुक्खु: अवदत् यत् राज्यसर्वकारः हस्तकरघा उत्पादानाम् प्रचारं कुर्वन् अस्ति, ये न केवलं व्यावसायिकवस्तूनि अपि तु राज्यस्य समृद्धसंस्कृतेः प्रतीकाः अपि सन्ति। सः अवदत् यत् लवी इत्यादयः मेलापका: न केवलम् उत्सवाः अपि तु भ्रातृत्वस्य सद्भावनायाः च प्रतीकाः सन्ति, येषां शताब्दपुराणः इतिहासः अस्ति। सः अवदत् यत् राज्यसर्वकारः ग्रामीण- अर्थव्यवस्थायाः सुदृढीकरणाय निरन्तरं प्रयत्नान् कुर्वन् अस्ति, विगतवर्षद्वये च अस्मिन् विषये अनेके उपक्रमाः कृताः सन्ति, भविष्ये च एतेषां प्रयत्नानाम् अधिकां त्वरिततां कर्तुं योजनाः सन्ति।