Akshaykumar : अक्षयकुमारस्य भारत-पाकिस्तान-वायुयुद्धाधारितं देशभक्तिपूर्णं चलच्चित्रम् अस्मिन् दिने प्रदर्शितं भविष्यति
वार्ताहर: – जगदीश डाभी । (मुम्बई)
प्राप्तवार्तानुसारम् अधुना एव खेल खेल इति चलच्चित्रे बॉलीवुडनायक: अक्षयकुमारः दृष्टः । अस्मात् चलच्चित्रात् बहु अपेक्षितम् आसीत् । परन्तु एतत् चलच्चित्रं बक्स् आफिस-मध्ये अपेक्षां न पूरितवान् । एतस्य निष्फलता अनन्तरम् अक्षयकुमारः अधुना देशभक्तिपूर्णे चलच्चित्रे द्रष्टुं गच्छति।
१९६५ तमे वर्षे भारत-पाकिस्तान-वायुयुद्धे पाकिस्तानस्य सरगोधा-वायुस्थानके भारतेन कृतस्य प्रतिकारात्मक-आक्रमणस्य आधारेण एतत् चलच्चित्रं निर्मितम् अस्ति । वयं स्काई फोर्स् इति चलच्चित्रस्य विषये वदामः। स्काई फोर्स् इति विमान-एक्शन्-चलच्चित्रम् । अस्मिन् चलच्चित्रे अक्षयकुमारेन सह मुख्यभूमिकायां सारा अली खानः दृश्यते।
अस्मिन् चलच्चित्रे वीर पहाडिया, निम्रत कौरः च महत्त्वपूर्णा भूमिकासु दृश्यन्ते। अस्मिन् वर्षे एतत् चलच्चित्रं प्रदर्शितं भवितुम् आसीत् । परन्तु अधुना एव चलच्चित्रं स्थगितम् अस्ति । अधुना च चलच्चित्रस्य नूतना प्रदर्शनतिथिः घोषिता अस्ति। अक्षयस्य स्काई फोर्स् २०२५ तमे वर्षे गणतन्त्रदिवससप्ताहे प्रदर्शितं भविष्यति।