गुरुनानकदेवः सिक्खमतस्य संस्थापकः, दशसु सिक्खगुरुषु अयं प्रथमः
गुरुनानकः सिक्खमतस्य संस्थापकः । दशसु सिक्खगुरुषु अयं प्रथमः । सिक्खजनानां विश्वासः वर्तते यत् अग्रिमाः गुरवः गुरुनानकस्य दैविकतां धार्मिकपाण्डित्यं प्राप्तवन्तः इति । अतः एव ते सर्वे अपि ‘नानक’पदेनैव निर्दिश्यन्ते स्म ।
गुरुनानकः १४६९ तमे वर्षे कार्तिकपूर्णिमा दिने जन्म प्राप्नोत् । अद्यत्वे इदं दिनं ‘प्रकाशदिन’त्वेन आचर्यते । हिन्दु खत्रिकुटुम्बे राय् भोय् दितल्वाडिग्रामे सः जातः । अधुना अयं प्रदेशः पाकिस्थाने लाहोरसमीपे ‘ननकानासाहिब् ‘नामकः अस्ति । अद्यत्वे तस्य जन्मस्थानं ‘गुरुद्वार जनम् अस्थान्’ इति निर्दिश्यते । अस्य पिता कल्याणचन्ददासबेडी, ‘कालू मेहता’ इति परिचितः आसीत् । सः तल्वण्डिग्रामस्य पट्वारी (गणनापरिशोधकः) आसीत् । माता तृप्तादेवी । तस्य अग्रजा आसीत् बीबी नानकी या आसीत् धर्मपरायणा ।नानकी जयरामेण परिणीता । ततः सा तेन सह सुल्तान्पुरम् अगच्छत् यत्र जयरामः लाहोरस्य राज्यपालस्य दौलतखान्लोदेः साहायकः आसीत् । भारतीयसम्प्रदायानुगुणं गुरुनानकः अपि अग्रजया सह सुल्तानपुरम् अगच्छत् । १६ वर्षीयः गुरुनानकः दौलतखानस्य कार्यालये एव कार्यं प्राप्नोत् । बालकनानकस्य विद्यालयगमनम् बाल्यकालादेव गुरुनानके प्रज्ञाविकासः दृश्यते स्म । पञ्चमे वयसि एव दैविकविषयेषु तदीया आसक्तिः दृश्यते स्म । सप्तमे वयसि तं पिता कालूमेह्ता ग्रामस्य विद्यालयं प्रेषितवान् । बालः
नानकः प्रथमस्य वर्णस्य साङ्केतिकम् अर्थं शिक्षकं व्यवृणोत् । कदाचित् मध्याह्ने सुप्तवतः शिशोः नानकस्य आतपात् रक्षणाय उद्युक्तः सर्पः रायबुलारेण दृष्टः इति श्रूयते । तदारभ्य रायबुलारः गुरुनानकं दैवस्वरूपं मन्यते स्म ।
सर्पेण छायाकृतं नानकं दृष्ट्वा नतमस्तकः रायः गुरुसमाजेन तस्य गुरुनानक् इति बिरुद: दत्त: । कार्तिकपूर्णिमादिने गुरुनानकजयन्ती सर्वत्र प्रचाल्यते । पिता उपनयनं कर्तुम् उद्युक्तवान् । बालः नानकः यज्ञोपवीतधारणं नाङ्गीकृतवान् । “तत् तृटयति, अपवित्रं भवति, गमनसमये नैव सहागमिष्यति” इति वदति स्म। न केवलं तत्, ” दयां कार्पासं कृत्वा, सन्तृप्तिं सूत्रं कृत्वा, निग्रहं बन्धनं कृत्वा ध्रीयते चेत् तदेव यज्ञोपवीतं भवति” इति स: प्रतिवदति स्म। “तादृशं यज्ञोपवीतं यः धरति सः एव दैवानुग्रहं प्राप्नोति” इति उक्तवान् । नानकस्य भार्या सुलखनी । श्रीचन्द्रः, लक्ष्मीदासश्च तस्य पुत्रौ । ‘कृषिं कुरु’ इति पिता प्रार्थितवान् । “मम देहक्षेत्रे मनः कृषीवलः, शीलमेव कृषिः, विनय एव जलम्, भगवद्भक्तिरेव बीजम्, सन्तृप्तिः हलः, दारिद्र्यं सीमा । प्रेम्णा पोषणं क्रियते चेत् वृक्षोप्तत्तिः भवति” इति भागवततत्त्वं ज्ञापयति स्म । “प्रतिदिनं पञ्चविषयान् प्रार्थयामि । प्रथमं सत्यं, द्वितीयं विशुध्दजीवनं, तृतीयं दैवानुग्रहं, चतुर्थं परिशुध्दं मनः,पञ्चमं दैवचिन्तनम् ” इत्यवदत् । बाह्यसौन्दर्यसहितानां कर्मणामपेक्षया आत्मसौन्दर्यमेव श्रेष्ठम् । तदेव भगवतः समीपं प्रापयतीति तस्य विश्वासः। अद्वितीयः, सद्रूपः, सत्यस्वरूपः, सर्वव्यापकः, सृष्टिकर्ता, पुरुषोत्तमः, निर्भयः, निर्वैरः, कालातीतः, अभवः, स्वयंभूः, विज्ञानदाता, दयामयः इति भगवच्छब्दस्य निर्वचनं दत्तवान् स:। जातस्य हि ध्रुवो मृत्यु:। गुरुनानकः कर्तारपुरग्रामे अन्तिमसन्देशं दत्त्वा समाधिस्थितिं प्राप्तवान् । गुरुनानकः अस्माकं प्रातःस्मरणीयेषु अन्यतमः । देहदण्डनमात्रेण का मुक्तिरविवेकिनाम्। वल्मीकताडनादेव मृतः किन्नु महोरगः ॥
गुरुनानकस्य उपदेशाः
गुरुनानकस्य उपदेशाः सिक्खधर्मग्रन्थे गुरुग्रन्थसाहिबे उपलभ्यते । नीतिबोधकाः श्लोकाः गुरुमुखौ विद्यन्ते ।
गुरुनानकः अहङ्कारस्य अपायान् व्यवृणोत् । देवनामस्मरणात् एव मुक्तिः इति बोधयति । देवस्य पूजा निस्वार्थयुता भवेत् । देवनाम व्यक्तिं शुद्धीकरोति । ततः पूजां कर्तुं शक्यते । इतः अवगम्यते यत् देवः एव कर्ता । तं विना अन्यः नास्ति इति । असत्यं कपटस्वभावश्च मानवान् अधोमार्गं नयन्ति । ततः कृतानि धार्मिककार्याणि अपि व्यर्थतां गच्छन्ति । गुरुनानकस्य उपदेशाः त्रिधा आचर्यन्ते –
वण्ड छक्को – अन्यैः संविभज्य जीव्यताम्, अन्येषाम् आवश्यकताम् अवगत्य साहाय्यं क्रियताम् ।
कीरत् करो – जीविका ऋजुमार्गेण अर्जयितव्या, शोषणद्वारा अन्यायमार्गेण कदापि न ।
नाम जपना – नामजपद्वारा देवः सर्वदा भजनीयः ।
गुरुनानकः नामजपस्य अत्यन्तं महत्त्वम् अयच्छत् । ‘गुरुमुख’ – ज्ञानिनः आश्रयितव्याः । ‘मनमुख’ – मनसः इच्छानुसारं न वर्तनीयम् ।