वयं वीरभद्रसिंहस्य पाठशालायां पठितवन्तः, तेन विना महती शून्यता वर्तते- मुकेश अग्निहोत्री
हिमसंस्कृतवार्ता:- काङ्गड़ा।
उपमुख्यमन्त्री मुकेश अग्निहोत्री काङ्गड़ाजनपदस्य जवालीक्षेत्रे मुक्तमञ्चात् पूर्वमुख्यमन्त्रिण: वीरभद्रसिंहस्य स्मरणं कृतवान्। सः अवदत् यत् वयं पूर्वमुख्यमन्त्रिण वीरभद्रसिंहस्य पाठशालायाम् अध्ययनं कृतवन्तः जनाः स्मः। सः अवदत् यत् जनसामान्येन सह कथं व्यवहारः करणीयः, विकासः कथं करणीयः इति, एतत् सर्वं पूर्वमुख्यमन्त्री वीरभद्रसिंहात् ज्ञातवान्।
अद्य सः अस्माकं मध्ये नास्ति अतः महती शून्यता अस्ति। सः अवदत् यत् अद्य हिमाचलं तस्य दानम् अस्ति। सः पूर्वमुख्यमन्त्री वाई. एस. परमारस्य अपि स्मरणं कृतवान्। सः अवदत् यत् कोऽपि कियत् अपि मिथ्याप्रचारं करोति। वयं राज्यस्य जनानां कृते समर्पिताः जनाः स्मः, निर्धनानां विकासाय च अस्माकं कृते यत् किमपि सम्भवं तत् करिष्यामः।