Tax- एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः
राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः दशमलव-एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति । वित्तवर्षेऽस्मिन् साम्प्रतं यावत् दशसहस्राधिक- द्वादशलक्षकोटितोऽधिकः करसंग्रहः सज्जातोऽस्ति । सीबीडीटी इत्याख्येन केन्द्रीयकरसंग्रहसंघेन एतत्प्रतिपादितं यत् अस्यवर्षस्य एक-अप्रैलतः दश- नवम्बरान्तं यावत् प्रत्यावर्तिनः धनस्य समायोजनं प्राक् सकल-प्रत्यक्षकर-संग्रहः दशमलव-द्वि-अधिक-एकविंशतिः प्रतिशतं वरीवर्ध्य पञ्चदश लक्षकोटितोऽपि अधिकः सञ्जातः आसीत्। अस्मिन् कालावधौ एकनवति-सहस्राधिक-द्विलक्षकोटि- रूप्यकाणां कर-प्रत्यावर्तनं कृतमस्ति। यद्धि गतवर्षस्य अस्यैव कालस्य करग्रहणस्य तुलनायां त्रिपञ्चाशत् प्रतिशतम् अधिकमस्ति ।
Tax- एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment