महाराष्ट्रप्रदेशः सर्वाधिकतया प्रत्यक्ष-विदेश-धन-निवेशे सक्षमतमः अभवत्-प्रधानमन्त्री
महाराष्ट्रविधानसभायाः नैर्वाचनिक प्रचारोपक्रमः उत्तुंगतां भजते। विभिन्नानां राजनीतिकदलानां वरिष्ठाः नेतारः मतदातृन् समाक्रष्टुं सर्वविधयत्ने रताः सन्ति । भाजपेतिदलस्य वरिष्ठ नेता प्रधानमन्त्री च नरेन्द्रमोदी महाराष्ट्रस्य तीव्रविकासाय महायुति-प्रशासनस्य प्रशंसां कृतवान्। चन्द्रपुर जनपदस्य चिमूर इति क्षेत्रे एकां नैर्वाचनिकजनसभां सम्बोधयता श्रीमोदिना भणितं यत् अयं महायुतिप्रशासनस्य सत्प्रयासानां परिणामः अस्ति यत् गतद्वाभ्यां वर्षाभ्यां महाराष्ट्रप्रदेशः सर्वाधिकतया प्रत्यक्ष-विदेश-धन-निवेशे सक्षमतमः अभवत् । श्रीमोदिना भाजपेति दलस्य घोषणापत्रस्य प्रशंसाकुर्वता उक्तं यत् ए.आई. विश्व- विद्यालयः, जलग्रिड इति परियोजनाः, आवासयोजनाः, नलिका-जल-सम्पर्कजालः, आद्यः महत्वाधायिन्यः घोषणाः महाराष्ट्रस्य उज्ज्वलभविष्याय लाभकारिण्यः सन्तीति ।
महाराष्ट्रप्रदेशः सर्वाधिकतया प्रत्यक्ष-विदेश-धन-निवेशे सक्षमतमः अभवत्-प्रधानमन्त्री
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment