एचआरटीसी-कर्मचारिभ्यः शीघ्रमेव १०० कोटिरूप्यकाणि अतिरिक्तसमयांश: प्रदास्यते- उपमुख्यमंत्री मुकेश अग्निहोत्री
हिमसंस्कृतवार्ता:- काङ्गड़ा।
उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यनेन उक्तं यत् शीघ्रमेव हिमाचलपथपरिवहननिगमस्य कर्मचारिभ्यः अतिरिक्तसमयस्य कृते १०० कोटिरूप्यकाणि दीयन्ते। एतेन सह २५० नूतनानि डीजल-विद्युत्बसयानानि क्रीताणि भविष्यन्ति। सः बुधवासरे जवालीनगरस्य नक्कीस्थाने सभां सम्बोधयन् आसीत्। उपमुख्यमन्त्री नक्कीस्थाने त्रिकोटिरूप्यकाणां व्ययेन निर्मितस्य विश्रामगृहस्य उद्घाटनं कृतवान्। तेन सह जलशक्तिविभागस्य निरीक्षणकुटीरस्य अपि उद्घाटनं कृतम्। सः अवदत् यत् हिमाचलप्रदेशसर्वकारः विकासस्य नूतनानि आयामानि स्थापयति। सहकारीसंस्थानां सङ्गणकीकरणं कृत्वा अन्तर्जालद्वारा निर्मिताः सन्ति, येन जनानां सम्मुखीभूतानां समस्यानां समाधानं भविष्यति।
सः अवदत् यत् काङ्ग्रेसेन निर्वाचनात् पूर्वं १० प्रतिज्ञा: दत्ताः, येषु पञ्च पूर्णाः अभवन्। अन्ये प्रतिज्ञा: चरणबद्धरूपेण सम्पन्नाः भविष्यन्ति। अधुना जनानां समस्या: तेषां द्वारे एव श्रुत्वा समाधानं क्रियन्ते।