न्यायाधीशः संजीवखन्ना भारतस्य ५१तमस्य मुख्यन्यायाधीश:
न्यायाधीशः संजीव खन्ना सोमवासरे राष्ट्रपतिभवने भारतस्य ५१तमस्य मुख्यन्यायाधीशस्य शपथं गृहीतवान्। अस्मात् पूर्वं न्यायाधीशः डी.वाई.चन्द्रचूडः निवृत्तः आसीत् । न्यायाधीशः खन्ना इत्यस्य नाम न्यायाधीशेन चन्द्रचूडेन अनुशंसितः आसीत् ।
चन्द्रचूडः ६५ वर्षीयः सन् नवम्बर् १० दिनाङ्के अस्मात् पदात् निवृत्तः अभवत् । १९६० तमे वर्षे मेमासस्य १४ दिनाङ्के जन्म प्राप्य न्यायमूर्तिः संजीवखन्ना दिल्लीविश्वविद्यालयस्य परिसरविधिकेन्द्रात् विधिशास्त्रस्य अध्ययनं कृतवान् । दिल्ली उच्चन्यायालयस्य न्यायाधीशत्वेन नियुक्तेः पूर्वं सः तृतीयपीढया अधिवक्ता आसीत् । सः राष्ट्रियकानूनीसेवाप्राधिकरणस्य (NALSA) कार्यवाहकअध्यक्षत्वेन अपि कार्यं कृतवान् ।