प्रधानमन्त्री नरेन्द्रमोदी- भाजपादलं सर्वदा आदिवासिजनानाम् हिताय कल्याणाय च कार्यं करोति
झारखण्डे प्रथमचरणस्य विधानसभानिर्वाचनाभियानस्य समाप्त्यर्थं केवलं द्वौ दिवसौ अवशिष्टौ । एतादृशे सति सर्वेषां राजनैतिकदलानां नेतारः मतदातृन् आकर्षयितुं पूर्णबलेन कार्य कुर्वन्ति। भाजपादलस्य-वरिष्ठनेता च नरेन्द्रमोदी रविवासरे राज्ये प्रचार-कार्यक्रमे एकां जनसभां सम्बोधितवान्। अपराले बोकारो नगरस्य चन्दनक्यारी विधानसभाक्षेत्रे विजयसंकल्प- अभियानं सम्बोधयन् प्रधानमन्त्री मोदी अवदत् यत् भाजपादलं सर्वदा आदिवासिजनानाम् हिताय कल्याणाय च कार्यं करोति। सः अवदत् यत् आदिवासीभ्रातृभगिनीनां आकांक्षाः, स्वाभिमानः च सर्वदा दलस्य कृते सर्वोपरि वर्तते। श्री मोदी प्रोक्तवान् यत् विगतदशवर्षेषु अस्माकं सर्वकारेण त्रिलक्षकोटिरूप्यतोधिकं धनराशिं जनेभ्यः प्रदत्तः। यः काङ्ग्रेसदलस्य अपेक्षया चतुर्गुणाधिकम् वर्तते। झामुमो- सर्वकारस्य आलोचनां कुर्वन् मोदीमहोदयः अवदत् यत् सोरेन-सर्वकारेण झारखण्डस्य जनानां शोषणं लुण्ठनं च कृतम्। अस्य प्रत्युत्तरे रांचीनगरे निर्वाचनसभां सम्बोधयन् सोरेन् महोदयः अवदत् यत् जनसमूहः सर्वेषु कार्येषु दृष्टिम् स्थापयति। सममेव ते निर्वाचने भाजपादलस्य कृते समुचितं उत्तरं दास्यन्ति। हेमन्त सोरेन इत्यस्य आरोपस्य खण्डनं कुर्वन् झारखण्डस्य भाजपादलस्य प्रमुखः बाबूलाल मराण्डी प्रोक्तवान् यत् केन्द्रीय संस्थाः निजकार्यं कुर्वन्ति इति।
भाजपादलं सर्वदा आदिवासिजनानाम् हिताय कल्याणाय च कार्यं करोति-प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment