केन्द्रीयगृहमन्त्री अमितशाहः मुम्बईनगरे महाराष्ट्रविधानसभानिर्वाचनार्थं दलस्य घोषणापत्र-संकल्पपत्रं विमोचितवान्
भारतीयजनतापार्टीदलस्य वरिष्ठनेता तथा केन्द्रीयगृहमन्त्री अमितशाहः मुम्बईनगरे महाराष्ट्रविधानसभानिर्वाचनार्थं दलस्य घोषणापत्र-संकल्पपत्रं विमोचितवान्। शाहमहोदयः अवदत् यत् भाजपायाः घोषणापत्रं राज्यस्य जनानां आकांक्षाणां प्रतिबिम्बम् अस्ति। भाजपादलेन सिञ्चनपरियोजनानि, नदीजलवितरणं, प्रावृट् काले अतिरिक्तजलस्य उपयोगः च राज्यं अनावृष्टिमुक्तं कर्तुं स्वघोषणा पत्रे प्रख्यापितम्। अस्मिन् कार्यक्रमे केन्द्रीय मंत्री पीयूष गोयलः, महाराष्ट्रस्य उपमुख्यमंत्री देवेन्द्र फडणवीसः, महाराष्ट्रस्य भाजपादलस्य अध्यक्षः चन्द्रशेखरः भावाकुले, अन्ये च नेतारः उपस्थिताः आसन्।
केन्द्रीयगृहमन्त्री अमितशाहः मुम्बईनगरे दलस्य घोषणापत्र-संकल्पपत्रं विमोचितवान्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment