गुजरातस्य वसाद्-नगरे आर्ट् आफ् लिविंग फाउण्डेशन इत्यनेन “सीड् द अर्थ्” इति कार्यक्रमस्य आयोजनम्
“सीड् द अर्थ्” इति कार्यक्रमस्य आयोजनं वसाद्-नगरे आर्ट् आफ् लिविंग फाउण्डेशन इत्यनेन कृतम् । यस्मिन् पञ्चसहस्राधिकाः जनाः एकत्रिताः भूत्वा ६० मिनिट् मध्ये २.५ लक्षं बीजगोलानि सज्जीकृत्य हरितभारतस्य निर्माणे योगदानं दत्तवन्तः।
राज्यपाल देवव्रत इत्यनेन उक्तं यत्, गुरुदेव: रविशंकरः मानवतायाः मार्गस्य आध्यात्मिकरूपेण प्रवर्धनस्य सङ्गमेन पर्यावरणस्य रक्षणस्य दिशि पदानि स्वीकृतवन्तः। पर्यावरणस्य रक्षणार्थं अधिकाधिकं वृक्षारोपणं आवश्यकम् ।
राज्यपालः अवदत् यत् रासायनिक-उर्वरक-कीटनाशकानाम् अतिप्रयोगात् पृथिवीमातुः स्वास्थ्यं क्षीणं जातम्। फलतः पृथिवीमाता वन्ध्या अभवत् । न केवलम् एतत्, प्रकृतेः अपि दुरुपयोगः क्रियते।