प्रधानमन्त्री एकपञ्चाशतसहस्राधिकं युवकेभ्यः वितरिष्यति नियुक्तिपत्राणि
प्रधानमन्त्री नरेन्द्रमोदी अद्य दृश्य-श्रव्य-परान्तर्जालीयमाध्यमेन नवनियुक्तेभ्यः युवकेभ्यः एकपञ्चाशतसहस्राधिकं नियुक्तिपत्राणि वितरिष्यति। वृतिपरकं इदं मेलकं देशस्य चत्वारिंशत्-स्थानेषु आयोजयिष्यते। नियुक्तिपत्रप्राप्ताः युवानः विविधेषु मन्त्रालयेषु विभागेषु च कार्यरताः भविष्यन्ति। वृत्यवसरप्रदातृ-मेलकमिदं प्रधानमन्त्रिणः कृतप्रतिबद्धतामपि दर्शयति। नवनियुक्ताः एते युवानः कर्मयोगी-अन्तर्जालपटले उपलब्धस्य आन्तर्जालिक-प्रारूपस्य कर्मयोगी-प्रारम्भ- इत्याख्यस्य साहय्येन आधारभूत-प्रशिक्षणस्य अवसरान् प्राप्स्यन्ति ।
प्रधानमन्त्री एकपञ्चाशतसहस्राधिकं युवकेभ्यः वितरिष्यति नियुक्तिपत्राणि
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment