ब्रिक्सइति शिखरसम्मेलने सहभागार्थम् अद्य रूसदेशं प्रति प्रस्थास्यति प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्री नरेन्द्रमोदी षोडशे ब्रिक्सइति शिखरसम्मेलने सहभागार्थम् अद्य रूसदेशं प्रति प्रस्थास्यति। अत्रावधौ श्रीमोदी ब्रिक्स समूहस्य सदस्यदेशः नेतृभिस्साकं द्विपक्षीयो-पवेशनानि समनुष्ठास्यति। विदेशमन्त्रालयेन कथितं यत् प्रधानमन्त्री श्रीमोदी राष्ट्रपतेः व्लादिमीर पुतिनस्य निमन्त्रणे द्वाविंशति-त्रयोविंशति-दिनाङ्ङ्कयोः रुसदेशस्य यात्रायां भविष्यति इति। कजाननगरे समायोक्ष्यमाणस्य अस्य शिखरसम्मेलनस्य विषयो वर्तते वैश्विक विकाससुरक्षयोः कृते बहुपक्षवादस्य सुदृढीकरणमिति।
प्रधानमन्त्री उडान योजनायाः अष्टवर्षाणि सम्पूरितानि
क्षेत्रीय-सम्पर्क-योजना उड़ानइति उड़े-देश का आम नागरिक इति योजनायाः गतदिने अष्टवर्षाणि सम्पूरितानि। अत्रावसरे समायोजितं समारोहं सम्बोधयन् केन्द्रीय- नागरिक-विमाननमन्त्री किंजरापुराममोहन नायडूः उक्तवान् यत् अनया योजनया देशे अवसराणां विकासानाञ्च नवीनाः सम्भावनाः उद्घाटिताः। अपिच नवीनेभ्यः आगन्तुकेभ्यः निवेशकेभ्यः विकासाय च नवीनाः अवसराः सृजिताः । यथा हि सहस्राधिकं युवानः वृत्यवसरान् प्राप्तवन्तः। असौ पुनः अकथयत् यत् विगतेषु दशवर्षेषु विमानपत्तनस्थानकानां संख्या चतुःसप्ततितः संवध्य सप्तपञ्चाशदधिकैकशतं यावत् जाता। प्रधानमन्त्री नरेन्द्रमोदी अद्य अवोचत् यत् प्रशासनस्य उडानयोजना भारतस्य विमाननक्षेत्रस्य परिदृश्यं परिवर्तितम् । उडानयोजनायाः अष्टमे वर्षसम्पूत्यैवसरे प्रधानमन्त्री सामाजिक-सञ्चारपटले अलिखत् यत् अनया योजनया विमानपत्तनस्थानकानां मार्गाणां संख्यायां वृद्धया साकं विमानयात्रा सरला जाता।
भारतं वैश्विकभविष्यस्य निर्माणे महत्वपूर्णां भूमिका निर्वहतीति- प्रधानमन्त्री मोदी
प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितं यत् भारतं वैश्विकभविष्यस्य निर्माणे महत्वपूर्णां भूमिका निर्वहतीति। असौ अवदत् यत् देशोऽयं सर्वेषु क्षेत्रेषु एकया अभूतपूर्वगत्या संर्वधमानो विद्यते। एकेन सर्वकारीयेतर-सञ्चार माध्यम-समूहेन आयोजितं विश्वशिखरसम्मेलनं सम्बोधयन् प्रधानमन्त्री कृत्रिममेधायाः आकांक्षिभारतस्य च चर्चा कृतवान्।
कोविड-नवदश-वैश्विक अर्थव्यवस्था मुद्रास्फीति-वृत्याभाव ऋतुदशापरिवर्तन- इत्यादीन् विषयान् उद्धृत्य श्रीमोदी प्रावोचत् यत् वैश्विक स्थितयः अपि भारतं प्रभावितं कुर्वन्ति। प्रधानमन्त्रिणा अग्रे प्रोक्तं यत् राष्ट्रिय जनतान्त्रिक-संयुतेः प्रशासनस्य तृतीयकार्यकालस्य केवलं पञ्चविंशत्यधिकैकशतदिवसेषु एवं नवलक्ष- कोटिरुप्यकाणां व्ययस्य आधारभूतसंरचना-परियोजनानाम् अनुमोदनं जातम् अपि च पञ्चदश नवीनानि वन्देभारत रेलयानानि प्रवर्तन्ते।