HPCM : ‘विद्युत् परियोजनायाः कृते त्रिस्तरे स्वत्वशुल्कं दातव्यं भविष्यति, अन्यथा राज्यसर्वकारः अधिग्रहणं करिष्यति’
हिमसंस्कृतवार्ता: – हमीरपुरम्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: हमीरपुरस्य प्रवासे डॉ. राधाकृष्णन राजकीयचिकित्सामहाविद्यालयस्य सभागारस्य प्रधानचार्यावासस्य च शिलान्यासं कृत्वा विविधनिर्माणकार्यस्य समीक्षां कृतवान् । अस्मिन्नवसरे हिमाचलप्रदेशपर्यटन- विकासनिगमस्य अध्यक्ष: एवं विधायक: रघुबीरबाली सुजानपुरस्य विधायक: कप्तान रंजीतराणा, विधायक: सुरेशकुमार:, मुख्यमंत्रिण: राजनैतिकपरामर्शक: सुनीलशर्मा काङ्गड़ासहकारीवित्तकोषस्य अध्यक्ष: कुलदीप: पठानिया इत्यादय: उपस्थिता आसन्।
मुख्यमन्त्री पत्रकारैः सह उक्तवान् यत् हिमाचलप्रदेशस्य धरोहरेण कस्यचित् क्रीडनं न कर्तव्यम्। मुख्यमन्त्री उक्तवान् यत् पूर्वभाजपासर्वकारेण ऊर्जापरियोजना: सम्पूर्णजीवनस्य कृते केवलं १२ प्रतिशतं स्वत्वशुल्के यत् हिमाचलस्य आर्थिकहानिः भवति। अतः अस्मिन् नियमे संशोधनं कृतमस्ति। सम्प्रति य: कोऽपि ऊर्जापरियोजनां प्रदेशे स्थापयिष्यति तेन प्रतिवर्षं १२ प्रतिशतं स्वत्वशुल्कं सर्वकाराय दातव्यं भविष्यति। तदतिरिक्तं १२ तः ३० वर्षपर्यन्तं १८ प्रतिशतं, ३० तः ४० वर्षपर्यन्तं ३० प्रतिशतं स्वत्वशुल्कं च दातव्यं भविष्यति।
मुख्यमन्त्री सुक्खुः अवदत् यत् ४० वर्षाणां समाप्तेः अनन्तरं परियोजना पुनः सर्वकारे आगमिष्यति। मुख्यमन्त्री उक्तवान् यत् एसजेवीएनएल अद्य ६७,००० कोटिरूप्यकाणां कम्पनी अभवत्, एतत् सर्वं धनं च हिमाचलप्रदेशात् अर्जितवान्। पूर्वभाजपासर्वकारेण १२ प्रतिशतं स्वत्वशुल्के परियोजनायाः कार्यान्वयनार्थं कम्पन्यै दत्तमासीत् । कम्पनी कोटिसहस्राणि लाभं प्राप्नोति, परन्तु हिमाचलप्रदेश: किमपि न प्राप्नोति। हिमाचलस्य धनं तस्य जलम् एव अस्य प्रवाहितस्य सुवर्णस्य पूर्वभाजपासर्वकारेण सम्यक् शोषणं न कृतम्।