MSP- दीपावल्याः -अवसरे रबीसस्यानां न्यूनतमसमर्थनमूल्यं (MSP) वर्धितम्
दीपावल्याः -अवसरे कृषकाणां कृते महत् उपहारं दत्त्वा केन्द्रसर्वकारेण षट् रबीसस्यानां न्यूनतमसमर्थनमूल्यं (MSP) वर्धितम्। प्रधानमन्त्री नरेन्द्रमोदिनः अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलस्य सभायां एषः निर्णयः कृतः । समागमानन्तरं सूचनाप्रसारणमन्त्री अश्विनीवैष्णवः पत्रकारसम्मेलने अवदत् यत् कृषकाणां उत्पादनानां पारिश्रमिकमूल्यानि सुनिश्चित्य सर्वकारेण २०२५-२६ वर्षे रबीसस्यानां एमएसपी वर्धिता। गोधूमस्य न्यूनतमसमर्थनमूल्यं प्रतिक्विन्टलं १५० रुप्यकाणि वर्धयित्वा प्रतिक्विन्टलं २४२५ रुप्यकाणि यावत् अभवत् । अन्येषां पञ्चानां रबीसस्यानां यव-चना-मसूर-सर्षपस्य, कुसुमस्य च एम.एस.पी. निवृत्तमानसूनसमये (अक्टोबर-नवम्बर) रबीसस्यानि रोप्यन्ते । प्रायः एप्रिलमासे ग्रीष्मऋतौ एतानि सस्यानि कर्त्यन्ते । एतानि सस्यानि वर्षया बहु प्रभावितानि न भवन्ति । गोधूमः, चणकः, मटरः, सर्षपः, यवः च प्रमुखाः रबीसस्याः सन्ति ।
MSP- दीपावल्याः -अवसरे रबीसस्यानां न्यूनतमसमर्थनमूल्यं (MSP) वर्धितम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment