HPCM: हिमाचलम् स्वपादयो: स्थातुं गच्छति।
द्विइञ्जिनयुक्तेन भाजपासर्वकारेण राज्यस्य धनं लुण्ठितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – जोगिंद्रनगरम्।
गुरुवासरे जोगिन्द्रनगरे जनसभां सम्बोधयन् मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः भाजपा एवं पूर्वजयरामठाकुरसर्वकारे च वाक्प्रहारं कृतवान्इ। सुक्खुः अवदत् यत् अस्माकं सर्वकारः २२ मासेभ्य: सत्तायां वर्तते। अस्मिन् काले अस्माकं बहूनि आह्वानानि आसन्, राज्यस्य कोषः शून्यः आसीत् । सुक्खुः उक्तवान् यत् भाजपा निर्वाचनात् पूर्वं राज्ये ५,००० कोटिरूप्यकाणि वितरितवती। जनानां धनम् आसीत् । सः राजनैतिकलाभार्थं संस्थानानि उद्घाटितवान् । विद्युत्-जलं निःशुल्कं कृतम्। यदा अहं मुख्यमन्त्री अभवम् तदा अस्य राज्यस्य व्ययस्य संचालनाय एकमासस्य एव धनम् आसीत् । द्विइञ्जिनयुक्तेन भाजपासर्वकारेण राज्यस्य धनं लुण्ठितम्। ते हस्तद्वयेन राज्यस्य धनं लुण्ठयित्वा राजनैतिकरोटिकां भङ्गयितुं प्रयतन्ते स्म। भाजपया बृहत् होटेलानां विद्युत् शुल्कमपि क्षमाकृतम् आसीत्। अस्माभि: उपदानस्य युक्तिकरणं कृतं परन्तु वयं सामान्यजनस्योपरि भारं न कृतवन्तः।
गुणवत्तापूर्णशिक्षायां हिमाचलप्रदेशः अद्य देशे २१तमं स्थानं प्राप्तवान्। कर्करोगे द्वितीयस्थानं प्राप्नोति। संस्थाः सुदृढं कर्तुं वयं प्रयत्नम् कुर्म:, अद्य अहं वक्तुं शक्नोमि यत् हिमाचलः पादयोः स्थातुं स्थितिं प्राप्तवान् इति। वयं स्वनीतिषु परिवर्तनं करिष्यामः, कठिननिर्णयान् करिष्यामः। सः अवदत् यत् जयराम-सर्वकारे पठानकोट-मण्डी-मार्गः द्वि-मार्गः आसीत्, अधुना तत् चतुष्पंक्तिमार्गं कर्तुं प्रयतन्ते। चतुष्पंक्तिराजमार्गेण पर्यटनस्य नूतना: आयामा: स्थापयिष्यन्ते।
सर्वोच्चन्यायालये शानन् परियोजनायाः युद्धं प्रचलति। कुहल परियोजना-३ अस्मिन् वर्षे आरभ्यते। भाजपा राज्यस्य जनानां सर्वकारस्य पतनस्य प्रयासं कृत्वा कमलस्य अभियानं प्रारब्धवती । १४ मासेषु अस्माकं सर्वकारेण २२०० कोटिरूप्यकाणां अतिरिक्तं राजस्वं प्राप्तम्। द्वारेषु बहूनि चौरद्वाराणि सन्ति, तानि अवश्यमेव निरुद्धानि करणीयानि। निर्वाचनकाले भाजपा शौचालयकरस्य मिथ्यारोपणं चालितवती इति मुख्यमन्त्री अवदत्। जयरामठाकुरः पञ्चवर्षपर्यन्तं मुख्यमंत्री भूत्वा मण्डीम् किमपि न दत्तवान्। शब्दै:, वाण्या च सर्वं दत्तं, किन्तु कर्मण: किमपि न कृतम्। सुन्नी, लुहारी, धौलासिद्ध तिस्र: विद्युत् परियोजना: सर्वकारेण अधिग्रहीष्यते।
सुक।खुः अवदत् यत् केन्द्रेण अस्माकं ऋणस्य सीमा न्यूनीकृता अस्ति। अस्माकं ९,२०० कोटिरूप्यकाणि केन्द्रस्य पार्श्वे सन्ति। यदि भाजपानेतारः एतावन्तः शुभचिंतका: सन्ति तर्हि केन्द्रात् ९२०० कोटिरूप्यकाणि दातुं साहाय्यं कुर्वन्तु। वयं युद्धं कुर्मः, प्रत्येकं आह्वानं सम्मुखीकृतवन्तः। स्वकीयेन प्रकारेण स्वास्थ्यसेवासु उन्नयनं कृतम्। जोगिन्द्रनगरे वैद्यानां परिचारिकाणां च अभावः पूरितः भविष्यति। जोगिन्द्रनगरक्षेत्रे ३२ मार्गाणां कृते बजटं उपलब्धं भविष्यति। आक्सीजन संयंत्रं अपि स्थापितं भविष्यति।
असौ अकथयत् यत् भूभूजोत-कन्दराया: विषय: प्रधानमंत्रिण: समक्षं स्थापित: अस्ति। यदि जयरामठाकुरः एतद् रोधयितुं देहलीं न गच्छति तर्हि एतस्य अनुमोदनं हिमाचलाय सुनिश्चितं वर्तते।