International Dussehra Festival Kullu : मालमार्गे १७ देशानां कलाकाराः सांस्कृतिकप्रदर्शनं कृतवन्त:
हिमसंस्कृतवार्ता: – कुल्लू:।
अन्ताराष्ट्रीयकुल्लूदशहरामहोत्सवे सोमवासरे मॉलरोड् इत्यत्र १७ देशानाम् सांस्कृतिकं दर्शनं जातम्। अमेरिका, रूस, मिस्र इत्यादीनां १७ देशानाम् कलाकाराः सांस्कृतिकप्रदर्शनं कृतवन्तः । सांस्कृतिकं प्रदर्शनं द्रष्टुं मॉलमार्गः पूर्णतया पूरितः आसीत् । अस्मिन् कार्यक्रमे राज्यस्य पञ्चमण्डलेभ्यः पञ्चराज्येभ्यः च कलाकाराः स्ववेषभूषाभि: लोकनृत्यैः च स्वसांस्कृतिकधरोहलं प्रस्तुतवन्तः।
ढालपुरस्य रथप्राङ्गणतः आरभ्य सांस्कृतिकयात्रा मालरोडत: भूत्वा कलाकेन्द्रतः प्रस्थिता । पूर्वं उपमुख्यमन्त्री मुकेश: अग्निहोत्री पट्टिकां कर्तयित्वा आयोजनस्य उद्घाटनं कृतवान्। तेन सह दशहरा- उत्सवसमिति-अध्यक्ष: व सीपीएस सुन्दरसिंहठाकुर: अपि आसीत्। जना: विदेशीयकलाकारैः सह सर्वेभ्यः राज्येभ्यः जनपदेभ्यः च दलानाम् प्रोत्साहनं कृतवन्तः । सोमवासरे सायं प्रायः ५:४० वादने आरभ्य सायं ६:३५ वादने सांस्कृतिकयात्रा समाप्तिं गता।
अस्मिन् प्रदर्शने अमेरिका, रूस, ब्राजील, म्यांमार, नेपाल, इन्डोनेशिया, मिस्र, कजाकिस्तान, बोलिविया, वेनेजुएला, बाङ्गलादेश, उज्बेकिस्तान, बेलारूस, थाईलैण्ड्, कजाकिस्तान, गुआना, ताजिकिस्तान इत्यादीनां १७ देशानां कलाकारा: आसन् अमेरिका, रूस, म्यान्मार, इन्डोनेशिया, बेलारूस, थाईलैण्ड् इत्यादीनां कलाकाराः नृत्यं कृतवन्तः । तदतिरिक्तं असम-हरियाणा-उत्तराखण्ड-राजस्थान-पञ्जाब-प्रदेदेशानां दलानि अपि संस्कृति-वर्णान् प्रसारयन्ति स्म । कुल्लूजनपदेन साकं मण्डी, लाहौल-स्पीति, हमीरपुरं, बिलासपुरं इत्येतेषां कलाकारा: अपि प्रदर्शनं कृतवन्तः।