रक्षामन्त्री राजनाथसिंहः हिमाचलप्रदेशस्य पञ्चसेतूनां सहितं ७५ परियोजनाः राष्ट्राय समर्पितवान्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
रक्षामन्त्री राजनाथसिंहः शनिवासरे सीमामार्गसङ्घटनेन २२३६ कोटिरूप्यकाणां व्ययेन निर्मिताः ७४ आधारभूतसंरचनापरियोजनाः राष्ट्राय समर्पितवान्। एताः परियोजनाः हिमाचलप्रदेशसहितस्य देशस्य अष्टसु राज्येषु, त्रिषु केन्द्रशासितप्रदेशेषु च विस्तृताः सन्ति। एताः परियोजनाः देशस्य ११ सीमाराज्येषु केन्द्रशासितप्रदेशेषु च निर्मिताः सन्ति। हिमाचलप्रदेशस्य राज्यपालः शिवप्रतापशुक्ल: अपि राजभवनशिमलातः आभासीयरूपेण कार्यक्रमे उपस्थितः आसीत्। राज्यपालः रक्षामन्त्री राजनाथसिंहं धन्यवादं दत्तवान् यत् एताः परियोजनाः राष्ट्राय समर्पिताः।
राज्यपालः अवदत् यत् एताभि: परियोजनाभि: भारत-चीन-सीमायां संपर्क:, सामरिकदृष्ट्या महत्त्वपूर्णाः मार्गाः, सेतव:, अन्यसुविधाः च सुदृढाः भविष्यन्ति। एताः परियोजनाः न केवलं सैनिकानाम् उपकरणानां च आवागमनं सुदृढं करिष्यन्ति अपि तु स्थानीयजनानां सामाजिक-आर्थिक-विकासे अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति। शुक्लः अत्यन्तं आह्वानपूर्णक्षेत्रेषु प्रतिकूलर्तुस्थितौ अपि परियोजनाः समये एव सम्पन्नं कर्तुं बीआरओ- कर्मचारिणां साहसस्य दृढनिश्चयस्य च प्रशंसाम् अकरोत्। सः अवदत् यत् एतासु परियोजनासु एनएच-3 (मनाली-सरचु-मार्गः), एनएच-5 (पोवारी- पूह- खाब- नामगिया- चुप्पन- शिपकीला- मार्गः), एनएच-505 च (खाब- समदो- काजा- ग्रांफूमार्ग:) इत्येतेषु ४० मीटरमितं भागा (३० मी, डोगरी (६५ मी), हबसर (५० मी) तथा शालखर-११ (४५ मी.) सहितं पञ्चसेतूनां निर्माणं सम्मिलितमस्ति।
सः अवदत् यत् एताः परियोजनाः संकरविधाने उद्घाटिताः ये राज्यस्य दूरस्थक्षेत्राणां जीवनरेखारूपेण कार्यं करिष्यन्ति। राज्यपालः अवदत् यत् बीआरओ इत्यनेन राज्ये सामरिकदृष्ट्या महत्त्वपूर्णपरियोजनानां कार्यं अभिलेखसमये सम्पन्नम् अस्ति, एतासु कतिपयपरियोजनासु च अत्याधुनिकप्रविधिभिः एकस्मिन् कार्यसत्रे निर्माणं कृतम् अस्ति।