Himsanskritnews Headlines: छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:
राष्ट्रीयवार्ता:
मालदीवस्य राष्ट्रपतिः मोहम्मद मुइज़्जु इत्यसौ पञ्चदिवसीय-भारत-यात्रायै राजधान्याम् नवदिल्ल्याम् सम्प्राप्त:।
मंगलवासरे संजाते जम्मू-कश्मीर-हरियाणा-विधानसभयोः निर्वाचनस्य मतगणनायै सज्जता सजवं प्रचलति ।
भारतीयवायुसेनायाः द्विनवतितमवर्षस्य उत्सवस्य आरम्भः चेन्नईनगरे जातः। उत्सवस्य आरम्भे द्विसप्ततिः युद्धविमानानां वायुविमानानां च अद्भुतप्रदर्शनम् अभवत्।
महाराष्ट्रस्य मुख्यमन्त्री एकनाथ शिंदे रविवासरे चेंबूर-स्थितं अग्नि-दुर्घटना स्थलम् उपगतः। प्रत्येकं पीडितानां परिजनेभ्यः पञ्चलक्ष-रूप्यकाणां साहाय्यं च उदघोषयत्।
भारत-बाङ्ग्लादेशयोः मध्ये विंशतिः प्रतिविंशतिः क्रिकेट-शृङ्खलायाः प्रथमा स्पर्धा ग्वालियर नगरे जाता।
महिलानां विंशतिः प्रतिविंशतिः क्रिकेट-चषक स्पर्धा मालिकायान् रविवासरे भारत-पाकिस्तानयोः स्पर्धा प्रचलिता।
हिमाचलवार्ता:
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् किन्नौरमण्डलस्य टापरीनगरे विश्वस्य प्रथमः नियन्त्रितवातावरणभण्डारणस्थानस्य (CA store) निर्माणं भूतापीयप्रौद्योगिक्याः उपयोगेन भवितुं गच्छति। एतदर्थं आइसलैण्ड- हिमाचलसर्वकारयोः मध्ये सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति। आइसलैण्डदेशस्य वैज्ञानिकाः उद्यानविदः भूतापीप्रौद्योगिक्याः प्रशिक्षणं दास्यन्ति, येन उद्यानपालका::लाभं प्राप्नुयुः।
उपमुख्यमन्त्री मुकेश अग्निहोत्री दिल्लीनगरे केन्द्रीयस्वास्थ्यमन्त्री जगतप्रकाशनड्डा इत्यनेन सह मिलित्वा हरोलीविधानसभाक्षेत्रे निर्मितस्य प्रचुरौषधवाटिकाया: (बल्क ड्रग पार्क) प्रगतेः विषये चर्चां कृतवान्। सः केन्द्रीयमन्त्रीं प्रचुरौषधवाटिकाया: कृते अतिरिक्तधनस्य आवश्यकतायाः विषये सूचितवान्।
विपक्षस्य नेता जयरामठाकुरः क्रीडाङ्गणानां, क्रीडासामग्रीणां च उपयोगाय सर्वकारस्य धनस्य आग्रहं लज्जाजनकम् इति उक्तवान्। सः अवदत् यत् शौचालयकरस्य अनन्तरं अधुना सर्वकारः ‘क्रीडा-क्रीडककरयोजना’ इति कल्पितवान्, यस्याः अन्तर्गतं क्रीडायाः क्रीडकानां च उपरि करम् आरोपयति। प्रतिदिनं राज्यस्य जनानां उपरि सर्वकारेण केनचित् प्रकारेण करः आरोपितः अस्ति। मुख्यमन्त्री ‘जनकल्याणकारी राज्यम्’ इति परिभाषां विस्मृतवान् अस्ति।
देशस्य अतिवेगयुक्तानां रेलयानानां मध्ये एकम् अम्ब-अन्दौरा ऊना मार्गेण नूतनदिल्लीं गच्छति वन्देभारतस्य रेलयानस्य उपरि पुनः शिलाभिः प्रहारः कृतः अस्ति। प्रकरणं शनिवासरस्य अपराह्नस्य अस्ति। अस्मिन् प्रसङ्गे वन्देभारतस्य रेलयानस्य ई-१, ई-२, सी-७, सी-१० चत्वारः कक्षा: क्ष
तिग्रस्ताः सन्ति ।