झारखण्डराज्ये त्रिशतोत्तर-त्र्यशीति-सहस्र कोटि- रूप्यकाणां विविध-परियोजनानाम् आधारशिलां स्थापयत् प्रधानमन्त्री
हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य झारखण्डस्य हजारी बाग-क्षेत्रे त्रिशतोत्तर-त्र्यशीति-सहस्र कोटि- रूप्यकाणां विविध-परियोजनानाम् आधारशिलां स्थापयत्। लोकार्पणं च कृतवान् । एतासु परियोजनासु धरती आबा जनजातीय ग्राम उत्कर्ष अभियानम् प्रमुखम् अस्ति। यत् हि सार्धेक- शतोत्तर-नवसप्ततिः सहस्र-कोटि-रूप्यकाणां वर्तते। एतासु परियोजनासु प्रधानमन्त्री जनजातीय आदिवासि-न्याय-महाभियानस्य अन्तर्गत-निहितानि कार्याणि सम्मिलितानि सन्ति। प्रधानमन्त्रिणा चत्वारिंशत् एकलव्य विद्यालयानां लोकार्पणं कृतम्। पञ्चविंशतिः एकलव्य विद्यालयानाम् आधारशिला अपि। अत्रावसरे हज़ारीबागे विनोबा भावे विश्वविद्यालयसस्य परिसरे जनान् सम्बोधयन् श्रीमोदी अवोचत् यत् नैकाः परियोजनाः आदिवासि-समुदायं सशक्तं विधातुं राज्ये ग्रामीणाधारभूत संरचनां समेधितुं च प्रयासान् महत्त्वपूर्ण रूपेण सहायकाः भविष्यन्ति। प्रधानमन्त्री अवोचत् यत् देशस्य जनजातीय समुदायस्य विकासं विना विकसित- भारतस्य सप्वनः पूर्णः नैव भविष्यति।। प्रधानमन्त्रिणा उक्तं यत् एताभिः परियोजनाभिः पञ्च- कोट्यधिकेभ्यः आदिवासि जनेभ्यः लाभो भविष्यति। श्रीमोदी प्रावोचत् यत् आदिवासि-कल्याणं सर्वकारस्य सर्वोच्च प्राथमिकतासु वर्तते। प्रधानमन्त्री अवोचत् यत् धरती आबा जनजातीय ग्राम उत्कर्ष अभियानं महत्त्वपूर्ण वर्तते। यस्योद्देश्यम् आदिवासि-ग्रामेषु समग्र विकासस-संवर्धनम् अथ च क्षेत्रस्य सामाजिक-आर्थिकपरिदृश्ये प्रमुख- परिवर्तनोत्पादनं च वर्तते ।
झारखण्डराज्ये ८३०० रूप्यकाणां विविध-परियोजनानाम् आधारशिलां स्थापयत् प्रधानमन्त्री
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment