एयर राइफल इत्यस्यां स्पर्धायां भारतस्य दिवांशी इत्यनया द्वे स्वर्णपदके समर्जिते
पेरुदेशस्य लीमानगरे प्रचल्यमाणायां (ISSF) इति अन्ताराष्ट्रीयलक्ष्यभेद स्पर्धासङ्घस्य कनिष्ठविश्व प्रतिस्पर्धायां चतुर्थे दिवसे महिलानां पंचविंशतिः मीटर् परिमितायां एयर राइफल इत्यस्यां स्पर्धायां भारतस्य दिवांशी इत्यनया द्वे स्वर्णपदके समर्जिते। अवधेयं वर्धते यत् पंचविंशतिः मीटर् परिमिते एयर राइफल इति निज उपलब्धि ग्रहाणातपूर्वं भारतस्य तेजस्वनी विभूति भाटिया इत्युभाभ्याम् सह मिलित्वा पंचविंशतिः मीटर् एयर राइफल इति महिलानां स्पर्धायां अन्यं स्वर्णपदकं समर्जितम् आसीत्।
एयर राइफल इत्यस्यां स्पर्धायां भारतस्य दिवांशी इत्यनया द्वे स्वर्णपदके समर्जिते
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment