स्वच्छतायाः प्रतिबद्धता सम्पूर्णजीवनस्य प्रतिज्ञा वर्तते-प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् स्वच्छतायाः प्रतिबद्धता सम्पूर्णजीवनस्य प्रतिज्ञा वर्तते। तेन जनाः समाहूताः यत् स्वच्छतां जीवनस्य अङ्गत्वेन स्वीकुर्युः। स्वच्छभारताभियानस्य दश-वर्ष- पूर्त्यवसरे राजधान्यां नवदिल्यां ऐषमः स्वच्छता एव सेवा कार्यक्रमं सम्बोधयन् प्रधानमन्त्रिणा स्वच्छतां जनान्दोलनं विधातुं चत्वारिंशदुरैकशतकोटि भारतीयानाम् भावना प्रणमिता। प्रधानमन्त्री अवोचत् यत् पञ्चदश दिनेषु स्वच्छता पखवाड़ा इत्यस्य अन्तर्गतं देशे सप्तविंशतिः लक्षाधिक-कार्यक्रमाः आयोजिताः। एतेषु कार्यक्रमेषु अष्टविंशतिः कोट्यधिकाः जनाः प्रतिभागं कृतवन्तः। श्री मोदी अवोचत् यत् अयं दिवसः अस्मान् महात्मगान्धिनः देशस्य अन्य- महापुरुषाणां च स्वप्न-कल्पित-भारतं वास्तविक रुपेण परिवर्तितुं प्रेरयति। स्वच्छ- भारताभियानस्य सफलतायां समेषां देशवासिनां स्वच्छता-कर्मिणां धार्मिकनेतृणां क्रीडकाणां प्रसिद्ध-जनानां प्रशासनेतर-सङ्घटनानां वार्ताभिकरणानां च योगदानं प्रधानमन्त्रिणा प्रशंसितम्। प्रधानमन्त्रिणा दश सहस्र-कोटि-रुप्यकाणां स्वच्छता परियोजनानाम् अपि चर्चा कृता।
स्वच्छतायाः प्रतिबद्धता सम्पूर्णजीवनस्य प्रतिज्ञा वर्तते-प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment