Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् विश्वकर्मायोजना भारतस्य विकासाय सहस्रवर्षपुरातन-कौशलानाम् उपयोगाय दिग्निर्देशः अस्ति।
- द्रौपदी मुर्मुः कृषकाणां आयवर्धनार्थं कृषि-आधारित उद्योगस्य प्रचारार्थ राष्ट्रपतिः बलं प्रदत्तवती।
- केन्द्रीय गृहमंत्री अमितशाहः शुक्रवासरे झारखण्डे परिवर्तन यात्रायाः शुभारम्भं कृतवान्। वरिष्ठनागरिकाणां कृते निःशुल्कोपचारम् अपि प्रतिज्ञापितवान्।
- बाङ्गलादेशस्य विरुद्ध-निकष स्पर्धायां द्वितीयदिनस्य अन्ते भारतं द्वितीये द्वन्द्वे त्रयाणां स्तोभानां हानिः पुरस्सरं एकाशीति धावनाकान् समर्जित्य अष्टोत्तर-त्रिशतं धावनांकैः अग्रे चलत्ति।
हिमाचलवार्ता:
- हिमाचलप्रदेशमन्त्रिमण्डलस्य गोष्ठी शुक्रवासरे मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां सम्पन्ना। सभायां बहवः बृहत् निर्णयाः कृताः सन्ति। राज्यमन्त्रिमण्डलस्य गोष्ठ्यां ७८० मेगावाट जङ्गी-थोपन-पोवारी जलविद्युत् परियोजनां हिमाचलप्रदेश- विद्युत्निगमलिमिटेड इत्यस्मै समर्पयितुं अनुमोदनं दत्तम्।
- हिमाचलप्रदेशविश्वविद्यालयस्य भौतिकशास्त्रविभागस्य प्राध्यापकः महावीरसिंहः विश्वस्तरस्य शीर्षद्विप्रतिशतवैज्ञानिकानां सूचौ स्थानं प्राप्य नूतनम् अभिलेखं स्थापितवान्। स्टैन्फोर्डविश्वविद्यालयस्य क्रमाङ्कने-२०२४ मध्ये सः वैश्विकरूपेण शीर्षद्विप्रतिशतवैज्ञानिकानां मध्ये एकः अभवत्।
- काङ्ग्रेसस्य महासचिव प्रियङ्का गान्धी वाड्रा शिमलातः भाजपाविरुद्धं संघर्षम् उद्घाटितवती। सः स्वस्य सामाजिकमाध्यमस्य एक्सपटले भाजपाविरुद्धं वक्तव्यं दत्तवती।
- लोकनिर्माणनगरविकासमन्त्री विक्रमादित्यसिंहः शुक्रवासरे द जार्ज इन्स्टिट्यूशन फ़ॉर् ग्लोबल हेल्थ इत्यस्य कार्यक्रमे मुख्यातिथिरूपेण भागं गृहीतवान्। वर्तमानसर्वकारः स्वच्छताकर्मचारिभिः सह दृढतया तिष्ठति। मन्त्री भूत्वा तस्य दायित्वम् वर्तते यत् एतेषां समस्यानां शीघ्रं समाधानं भवतु । एतत् मनसि कृत्वा स्वच्छताकर्मचारीसंघेन सह शीघ्रमेव सभा भविष्यति।