Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्र मोदी ओडिशा-सर्वकारस्य महिला-केन्द्रित-प्रमुख-योजनां, सुभद्रा योजनाम् उद्घाटितवान्। एतद् अतिरिच्य स: समस्ते देशे प्रधानमन्त्रि-आवास- योजना-ग्रामीणस्य अन्तर्गतं प्रायः दश लक्ष-मितेभ्यः लाभार्थिभ्यः प्रथमांशं इत्याख्यं धनपुटकमपि समर्पितवान्।
- राष्ट्रपतिः द्रौपदीमुर्मूः नव-देहल्यां भारतस्य अष्टम-जल-सप्ताहस्य उद्घाटनं विहितवती। अथ च जल-संरक्षणस्य कृते जनान्दोलन- विधानस्य आवश्यकतायां बलं दत्तवती।
- देहल्या: मुख्यमन्त्रिणा अरविन्दकेजरीवालेन मुख्यमन्त्री पदात् त्यागपत्रं प्रदत्तम्। आम आदमी पार्टीति दलेन देहल्या: नवीन-मुख्यमन्त्रित्वेन आतिशी वर्या नामिता ।
- पेरू-देशे व्यापक-वनाग्निकाण्डे पञ्चदश जनाः मृताः, विशालं शस्यक्षेत्रं कृषिभूमिक्षेत्रं च वनाग्निना भस्मसाद् भूतम्।
हिमाचलवार्ता:
- हिमाचलस्य विलीनविद्यालयेषु कार्यरतानाम् मध्याह्नभोजनकर्मचारिणां कृते आश्रयस्य वार्ता अस्ति। सर्वकारः राज्यस्य शतशः विलीनविद्यालयानाम् अधिशेषमध्यदिनभोजनकर्मचारिणां कार्याणि रक्षिष्यन्ति। एतादृशाः सर्वे मध्याह्नभोजनकार्यकर्तार: समीपस्थेषु विद्यालयेषु नियोजिता: भविष्यन्ति।
- काङ्ग्रेसस्य पूर्वराष्ट्रीयाध्यक्षा सोनिया गान्धी मंगलवासरे अपराह्ने राजधानीं शिमलानगरं प्राप्तवती। प्रियंका गान्धी गत रविवासरे अत्र आगता आसीत्। अधुना सोनिया गान्धी अपि प्रियङ्कया सह अत्रैव स्थिता अस्ति।
- ११ सितम्बर् दिनाङ्के संजौलीनगरे स्थिते मस्जिदे अवैधनिर्माणस्य विरोधे शिलापातं कृतवतां जनानां विरुद्धं वन्दीगृहस्य खड्गः लम्बितः अस्ति। पुलिस-अनुसारं ड्रोन्-यन्त्रात् प्राप्तानां चलचित्राणां, प्रमाणानां च आधारेण अद्यावधि ७० जनानां चिन्हिता: सन्ति।
- अतीव शीघ्रमेव हिमाचलप्रदेशे नूतना विक्रेतानीतिः निर्मातुं गच्छति। अस्मिन् विक्रेतानीतौ हिमाचलप्रदेशस्य मूलनिवासिनां अधिकारस्य सम्भवं पालनं भविष्यति। न केवलं जनानां भावना एवम् अस्ति, अपितु सत्ताधारी दलस्य नेतारः अपि एतत् उक्तवन्तः।
- ऋतुविज्ञानविभागेन आगामि ४८ होराणां कृते पीतसचेतना कृता अस्ति। अस्मिन् काले राज्यस्य अधिकांशेषु भागेषु वर्षायाः सम्भावना वर्तते । ऋतुविज्ञानविभागेन स्थानीयप्रशासनं सम्बन्धितक्षेत्रेषु सजगं भवितुं परामर्श: दत्तः।