CIET-NCERT इति संस्थया ई-पाठ्यसामग्रीणां निर्माणार्थम् अन्तर्जालमाध्यमेन प्रथमचरणस्य प्रशिक्षणकार्यक्रमः चाल्यते।
CIET-NCERT इति संस्थया भारतस्य सर्वेषु राज्येषु शिक्षकाणां विविधगुणवत्तायुक्तानां ई-पाठ्यसामग्रीणां निर्माणार्थम् प्रथमचरणस्य प्रशिक्षणकार्यक्रमः सितम्बरमासस्य नवदिनाङ्कात् त्रयोदश दिनाङ्कपर्यन्तम् आयोज्यते। अस्यां कार्यशालायां 19 राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च सम्भवतः भारतस्य 300 शिक्षकाः प्रतिभागितां कुर्वन्ति।
कार्यशालायां वर्तमानसमये अन्तर्जालीयमाध्यमैः एआई इत्यस्य प्रयोगेण शिक्षणसामग्रीणां निर्माणविषये प्रायोगिकानि सत्राणि प्रचलन्ति। प्रातः सार्धनववादनात् सायं पञ्चवादनपर्यन्तं कार्यशालायाः प्रतिदिनम् आयोजनं क्रियते यत्र सीआईईटी संस्थायाः निपुणाः शिक्षकाः प्रशिक्षकाश्च स्वानुभवेन ई-सामग्रीनिर्माणस्य प्रशिक्षणं दास्यन्ति।
प्रशिक्षणमिदं जूम इति अन्तर्जालीयमाध्यमेन प्रचलति। कार्यक्रमस्य चतुर्थे दिवसे गुरुवासरे एआई इत्यस्य प्रयोगेण ई-सामग्र्याः निर्माणविषये विस्तृततया चर्चा अभवत्। ध्यातव्यमस्ति यत् अस्मिन् प्रशिक्षणे सीबीएसई, सैनिकविद्यालयाः, एससीईआरटी सदृशानां संस्थानां शिक्षकाः प्रतिभागितां कुर्वन्ति। अस्यां कार्यशालायां हिमाचलस्य आहत्य 12 शिक्षकाः प्रशिक्षणं प्राप्नुवन्ति।