Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे दृश्य-श्रव्य इति परान्तर्जालीय- माध्यमेन गुजरातस्य सूरतनगरे ‘जल-सञ्चयः, जन-सहभागिता’ इत्येतस्य पदक्षेपस्य शुभारम्भः कृतः।
- केन्द्रेण कथितं यत् नौसेनायाः वायुसेनायाः राष्ट्रियापत्- प्रतिकारबलस्य च दलानि आन्ध्रप्रदेश तेलङ्गाना-राज्ययोः च साहाय्योद्धारकार्येभ्यः नियोजितानि । अपरत्र केन्द्रीयमन्त्री शिवराज सिंहः तेलङ्गाना-राज्यस्य खम्मम-नगरे जलाप्लावित- प्रभावितक्षेत्राणां नभःस्थ-निरीक्षणम् विहितवान्।
- रुसदेशीयः राष्ट्रपतिः व्लादिमिर् पुतिन् प्रोक्तवान् यत् भारत- ब्राजील-चीनदेशाः युक्रेन्-द्वन्द्वस्य विषये सम्भाव्य-शान्ति-वार्तासु मध्यस्थरूपेण कार्य कर्तुं शक्नुवन्ति ।
- भाजपेतिदलेन जम्मूकश्मीरस्य विधानसभा-निर्वाचनाय निजघोषणा-पत्रम् प्रकाशितम्।
- पेरिस-नगरे पैरालिम्पिक-क्रीडासु प्रवीणकुमारः पुरुषाणाम् उच्चकूर्दनस्पर्धायां स्वर्णपदकं प्राप्तवान्।
हिमाचलवार्ता:
- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् विद्युत्मण्डले नियमितरूपेण नियुक्तिप्रक्रिया निरन्तरं वर्तते, आवश्यकता भवति चेत् टीमेट-लाइनमेन-जनाः बाह्याधारेणापि नियुक्ता: भविष्यन्ति।
- सामाजिकन्यायसशक्तिकरणमन्त्री कर्नल धनीरामशाण्डिलः अवदत् यत् एकस्य परिवारस्य एकस्याः महिलायाः कृते एव १५०० रुप्यकाणां मानदं प्रदास्यते। २०२४-२५ वित्तवर्षे योजनाया: अन्तर्गतं २२८४ लक्षरूप्यकाणां प्रावधानं कृतम्। अधुना यावत् कुलम् २८,२४९ महिलानां कृते धनं मुक्तम्।
- पुणे, महाराष्ट्रे निवसन्त: हिमाचलीजनाः हिमाचलीमिलन- कार्यक्रमस्य आयोजनं कृतवन्तः। अस्य आयोजनस्य आयोजनं सूर्यसमूहस्य मुख्यकार्यकारी दीपकसूदः तस्य पत्नी पूजा सूद च अकरोत्। पूजा सूद अवदत् यत् पुणेनगरे निवसतां हिमाचलीनां भावनात्मकरूपेण एकीकरणाय एषः कार्यक्रमः आयोजितः अस्ति।
- हिमाचलप्रदेशस्य काङ्गड़ाविधानसभाया: अन्तर्गतम् इच्छी पंचायतस्य हिमाचलस्य लोकगायिकाया: जानवी चौधरी इत्यस्या: अपरं नवीनं गीतं ‘मना रा लोभी विमोचितम्। जानवी इत्यनया स्वस्य यूट्यूब चैनले Singer Janvi Chaudhary Official इत्यत्र गीतं विमोचितम् अस्ति। एतद् गीतं प्रेक्षकेषु बहु प्रथितमस्ति।