Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- राष्ट्रपतिपदासीना द्रौपदीमुर्मुः शिक्षकदिवसे नवदिल्ल्यां द्वयशीतिः अध्यापकेभ्यः चतुर्विंशत्यधिक- द्विसहस्रतमवर्षस्य राष्ट्रिय-शिक्षक-पुरस्कारं प्रदत्तवती।
- भारत-सिङ्गापुर्-देशयोः मध्ये स्वास्थ्य-चिकित्सा, शिक्षा-कौशल विकास, डिजिटल- प्रौद्योगिकी, भारत-सिङ्गापुर् सेमिकण्डक्टर्-इकोसिस्टम्-साहकार्य इत्यादिषु क्षेत्रेषु सहकारार्थं चतुर्णां सहमति-पत्राणां आदानप्रदानम् अभवत्।
- हरियाणायां एकचरणीयविधानसभानिर्वाचनस्य, जम्मू-कश्मीरे तृतीयचरणस्य निर्वाचनस्य च अधिसूचनानिर्गमनेन सह नामाङ्कन-पञ्जीकरणम् अपि समारब्धम्।
- भारतीय-रिजर्व-बेड्क् इत्यस्य प्रमुखः शक्तिकान्त-दासः दृढीकृतवान् यत् भारतस्य आर्थिकवृद्धिः नैरन्तर्येण अग्रे वर्धते।
- पैरालिम्पिक क्रीडायां स्वर्ण पदकविजेता लक्ष्य भेदकः हबिन्दरसिंहः पूजा जत्यानश्च मिश्रितदलवर्ग आस्ट्रेलियादेशस्य अमाण्डा जेनिङग्स टेमोन कॅटन्-स्मिथ इत्येतौ पराजित्य प्रागुपान्त्यचक्रीय-क्रीडायां प्रवेशं कृतवन्तौ।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्ये स्वास्थ्यविभागस्य व्यवस्था अष्टमासेषु सम्यक् कर्तव्या अस्ति।विधायिकाया: रीनाकश्यपाया: प्रश्नस्य उत्तरं दत्त्वा मुख्यमन्त्री अवदत् यत् अष्टमासानाम् अनन्तरं कस्यचित् उपालम्भस्य अवसरः न प्राप्स्यते। स्वास्थ्यसंरचना सुदृढाः क्रियन्ते।
- हिन्दुसंस्थाभिः संजौलीबाजारे कस्यचित् समुदायविशेषस्य धार्मिकस्थाने अवैधनिर्माणस्य ध्वंसनस्य आग्रहं कृत्वा सशक्तं प्रदर्शनं कृतम्। एतस्मिन् काले संजौलीचौकतः ढलीसुरङ्गपर्यन्तं, इतः पुनः संजौलीचौकपर्यन्तं च जनाः एकत्रिताः भूत्वा घोषोद्घोषान् अकुर्वन् । प्रदर्शनं दृष्ट्वा तस्मिन् स्थले बहुसंख्याकाः पुलिसारक्षका: नियोजिताः आसन्।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गुरुवासरे हिमाचलपथपरिवहननिगमस्य राष्ट्रियसामान्यगतिकार्डसुविधायाः आरम्भं कृतवान् यस्य उद्देश्यं नगदरहितयात्रायाः प्रोत्साहनं भवति। क्रेडिट् कार्ड्, डेबिट् कार्ड्, यूपीआई इत्येतेषाम् अतिरिक्तं अधुना यात्रिकाः हिमाचलपथपरिवहननिगमस्य बसयानेषु राष्ट्रियसामान्यगतिशीलताकार्डद्वारा अपि भाटकं दातुं शक्नुवन्ति।
- हिमाचलप्रदेश-ग्रामीणविकास-एवं- पंचायतीराजमंत्री अनिरुद्धसिंह: विधानसभायां मस्जिदनिर्माणस्य विषये दृढ़तया टिप्पणीं कृतवान्। सः अवदत् यत्, “सञ्जौली-विपण्यां महिलानां कृते गमनम् कठिनं जातम्। चौर्यं भवति, लव-जिहाद-आदय: घटनाः भवन्ति, ये राज्याय, देशस्य च कृते संकटापन्ना: सन्ति। अवैधरूपेण मस्जिदस्य निर्माणं कृतम् अस्ति।”