Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- केन्द्रीयमन्त्रिमण्डलेन कृषकाणाम् आयाभिवर्धनाय सप्तोपक्रमाः स्वीकृताः सन्ति ।
- गुजरातस्य साणन्द-नगरे अर्धचालक संस्थां स्थापयितुं केयन्स-सेमिकान्-प्राइवेट्-लिमिटेड् इत्यस्य प्रस्तावं मन्त्रिमण्डलेन अनुमोदितम्। प्रस्तावोऽयम् त्रयस्त्रिंशत्-कोटि-रूप्यकाणां निवेशेन स्थाप्यते।
- तेलेङ्गाना-राज्ये केषुचित भागेषु च जलप्लावनस्य स्थितिः गभीरा एव अस्ति। राज्ये प्रचण्डवृष्टेः कारणात् न्यूनातिन्यूनं षोडश-जनाः मृताः प्रायः अर्धशताधिकाः जनाः प्रवाहिताश्च सन्ति।
- पेरिस-पैरालम्पिक-प्रतिस्पर्धायाम् नितेश कुमारः बैंडमिंटन क्रीडायाम् स्वर्णपदकं विजितवान्। तत्रैव डिस्कसथ्रो इति स्पर्धायां योगेस-कथूनिया इत्यनेन रजतपदकं विजितम्।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हमीरपुर-मण्डी-राष्ट्रिय-राजमार्गस्य कार्यकरणस्य दोषाणां निरीक्षणाय सचिवस्तरीयासमितिः निर्मिता भविष्यति। सः अवदत् यत् अस्य मार्गस्य विषयः दिल्लीनगरे अपि उत्थापितः अस्ति। राष्ट्रियराजमार्गप्राधिकरणस्य कार्यस्य गतिः मन्दः अस्ति, अस्य परिणामं जनाः पीडयन्ति।
- शिक्षामन्त्री रोहितठाकुरः अवदत् यत् २०२४-२५, २०२५-२६, २०२६-२७ शैक्षणिकसत्रस्य कृते प्रथमश्रेण्यां प्रवेशं दातुं षड्मासानां आयुः शिथिलता दत्ता अस्ति। अस्य कृते आयुः सीमा ३० सेप्टेम्बर् यावत् निर्धारिता अस्ति।
- मुख्यमन्त्री सुक्खुः अवदत् यत् २०२२-२३ तः २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं राज्यसर्वकारस्य कृते जीएसटी-रूपेण कुलम् १२६१० कोटिरूप्यकाणां आयः प्राप्तः।
- हिमाचलप्रदेशस्य ग्रामीणक्षेत्रेषु भवननिर्माणस्य मानकेषु परिवर्तनं भविष्यति। राज्ये प्राकृतिकविपदानां नित्यं वर्धमानान् संकटान् दृष्ट्वा भवननिर्माणसम्बद्धा नियमान् कठिनं कर्तुं सर्वकारः गच्छति। अस्मिन् विषये सोमवासरे नगर-एवं-ग्रामनियोजनमन्त्री राजेशधर्माणी नगर-ग्रामनियोजनसंशोधनविधेयकं २०२४ विधानसभायां प्रस्तुतवान् ।
- विपक्षस्य नेता जयरामठाकुरः उक्तवान् यत् जनाः द्विदिवसेभ्य: वेतनस्य प्रतीक्षां कुर्वन्ति। दूरभाषे प्रत्येकं सन्देशं वेतनं न आगतं इति विचारेण परीक्ष्यते। ते स्वसहकारिणः अन्यविभागेभ्यः जनान् च आहूय पृच्छन्ति यत् वेतनं आगतं वा? अद्यपर्यन्तं राज्ये एतादृशी स्थितिः कदापि न अभवत् यत् कर्मचारिभिः स्ववेतनस्य आकांक्षा कर्तव्या भवति।