संस्कृतशिक्षा-उत्तराखंडशासनस्य निदेशकसचिवयोः केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिना सह उपवेशनं जातम्।
देहली – संवादादातृणा संस्कृत महाविद्यालय-विद्यालय शिक्षक संघ उत्तराखंडस्य प्रान्तीयाध्यक्षेण डॉ राम भूषण बिजल्वाणेन ज्ञापितं यत् कुलपतिना प्रो श्रीनिवासवरखेडीवर्येण सह वार्ताक्रमे ज्ञातं यद् संस्कृत शिक्षा विभागस्य महतीः उपलब्धीः उत्तराखंडशासनस्य संस्कृतशिक्षायाः सचिवः श्रीदीपकगैरोला , निदेशकः डॉ आनंद भारद्वाजश्च उपस्थापितवन्तौ । ताभ्यां सह संस्कृतशिक्षाविभागस्य शिष्टमण्डलमपि सम्मिलितम्। तत्र संस्कृत विश्वविद्यालयहरिद्वारस्य प्रो दिनेशशास्त्री उत्तराखंड संस्कृत शिक्षा परिषदः सचिवः डॉ राजेश शर्मा इत्यादिभिः सह अनेके अधिकारिणः समुपस्थिताः। उत्तराखंडे संस्कृत शिक्षायाः उन्नयने संस्कृत विद्यालय- महाविद्यालयानां मूल सुविधाभिः सह विभिन्न मदेषु वित्तीय सहायतां प्रदातुं उत्तराखंड सर्वकारस्य स्वप्नपरियोजना द्वितीय राजभाषा संस्कृतस्य उन्नयनहेतवे उत्तराखंडस्य प्रत्येकस्यां जिल्लायां पञ्चप्राथमिक संस्कृत विद्यालयानाम् उद्घाटनं केंद्रीय संस्कृत विश्वविद्यालयः वित्तीय सहायतानुदानं प्रदास्यति उत्तराखंडे द्वितीय राजभाषा संस्कृतस्य परिकल्पनां सार्थकीं कर्तुं केंद्रीय संस्कृत विश्वविद्यालय दिल्ली द्वारा विभिन्न घटकेभ्यो महतीं वित्तीयसहायतां प्रदातुं सहमती प्रदास्यते।