UPS:केन्द्रीयमन्त्रिमण्डलेन सर्वकारीयकर्मचारिणां कृते एकीकृतपेंशनयोजनायाः अनुमोदनं कृतम्
केन्द्रीयमन्त्रिमण्डलेन सर्वकारीयकर्मचारिणां कृते एकीकृतपेंशनयोजनायाः अनुमोदनं कृतम् यस्मिन् नियतपेंशनवृत्ते प्रावधानं कृतम् अस्ति। सूचनाप्रसारणमन्त्री अश्विनीवैष्णवः शनिवासरे नवदिल्लीनगरे मन्त्रिमण्डलसभायाः अनन्तरं पत्रकारसम्मेलने अवदत् यत् अस्याः योजनायाः अन्तर्गतं २५ वर्षाणां सेवां पूर्णं कृत्वा विगत १२ मासानां मूलभूतवेतनस्य ५० प्रतिशतं पेन्शनरूपेण दीयते। एतदतिरिक्तं कर्मचारिणः मृत्योः अनन्तरं योजना अन्तर्गतं परिवारपेंशनवृत्तेः ६० प्रतिशतं यावत् वर्धितम् अस्ति। श्री वैष्णवः उक्तवान् यत् अनया योजनया प्रायः २३ लक्षं सर्वकारीयकर्मचारिणः लाभान्विताः भविष्यन्ति।
श्री वैष्णवः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलस्य संगोष्ठ्यां बायो-ई-३, अर्थव्यवस्था, पर्यावरण किञ्च दैनिकवृत्त्यानीतिः जैव प्रौद्योगिकी नीतिः अनुमोदितः अस्ति।
मन्त्रिमण्डलेन त्रयाणां प्रमुखयोजनानां निरन्तरतायाम् अनुमोदनं कृतम् यत्र विज्ञानधारायोजनायां विलीनीकरणं कृतम् अस्ति। अस्य कृते १० सहस्रं पञ्चशतं ७९ कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति । योजनायां विज्ञान-प्रौद्योगिकी-संस्थानां स्थापना तथा मानव-क्षमता-निर्माणं, अनुसन्धान-विकास-नवाचारः, प्रौद्योगिकी-विकासः, परिनियोजनं च अन्तर्भवति ।
UPS: केन्द्रीयमन्त्रिमण्डलेन एकीकृतपेंशनयोजनायाः अनुमोदनं कृतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment