Sanskrit Saptah 2024 : प्रदेशस्य १२ जनपदेषु संस्कृतमयेन वातावरणेन संस्कृतसप्ताहस्य समापनम्- डॉ. मनोजशैल:।
प्रायश: प्रदेशस्य २२००० छात्रै: १००० शिक्षकै: च सोत्साहम् आचरित: संस्कृतसप्ताहमहोत्सव:।
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
हिमाचल- राजकीय- संस्कृत- शिक्षकपरिषदः प्रदेशाध्यक्षः डॉ. मनोज शैलः उक्तवान् यत् श्रावणीपूर्णिमा अर्थात् १६ अगस्ततः त्रिदिवसपूर्वं आरब्धः संस्कृतसप्ताहः सम्पूर्णस्य प्रदेशस्य १२ जनपदेषु श्रावणीपूर्णिमायाः त्रिदिवसानन्तरं २२ अगस्तदिनाङ्के महता उत्साहेन सम्पूर्तिं यात:। अस्मिन् अवसरे संस्कृतशिक्षकाणां साहाय्येन विद्यालये विविधाः क्रियाकलापाः आयोजिताः, येषु श्लोकपाठः, संस्कृतगीतानां गायनम्, संस्कृतभाषणं, संस्कृतेन अभिवादनसन्देशानां निर्माणं, संस्कृतस्फूरकपत्राणां निर्माणं, संस्कृतशोभायात्रा, संस्कृतस्य प्रदर्शनी प्रश्नोत्तरी प्रतियोगिता: चेत्यादीनां गतिविधीनां संचालनं अभवत्। छात्राः महता उत्साहेन एतत् अवसरं आचरितवन्तः।
सामाजिकमाध्यमेषु अपि लोकप्रियः आसीत् संस्कृतसप्ताह:
संस्कृतसप्ताह: सामाजिकमाध्यमेषु अपि लोकप्रियः आसीत्, सर्वेषां संस्कृतशिक्षकाणां कृते हैशटैग-अभियानम् आरब्धम्, फेसबुक्, इन्स्टाग्राम, व्हाट्सएप इत्यादिषु मञ्चेषु प्रत्येकं क्रियाकलापस्य कृते #संस्कृतसप्ताह_2024 #SanskritSaptah_2024, #Hpsktparishad इति च लिखित्वा स्वक्रियाकलापं सहभागिकृतम्। तेन सह काङ्गड़ा, मण्डी, ऊना, सोलनं, कुल्लू:, शिमला, बिलासपुरं, सिरमौरम् इत्यादिषु जनपदेषु भाषासंस्कृतिविभागेन हिमाचल- राजकीय- संस्कृत- शिक्षकपरिषद: सहकारेण संस्कृत- सप्ताह- महोत्सवविषये अनेके कार्यक्रमाः आयोजिताः। परिषदः राज्याध्यक्षः अवदत् यत् जनपदेभ्यः प्राप्तविवरणानुसारं मण्डीमण्डले प्रायः २०० विद्यालयेषु ४००० छात्राणां सहभागिता, सिरमौरस्य १७५ विद्यालयेषु ३५०० छात्राणाम्, ऊनाया: ७० विद्यालयेषु ९०० छात्राणां, सोलनस्य १०० विद्यालयेषु १००० छात्राणां सहभागिता, काङ्गड़ाजनपदस्य १५० विद्यालयेषु २५०० छात्राणां, हमीरपुरे १६० विद्यालयेभ्यः प्रायः ४५०० छात्राणां, चम्बायां ३० विद्यालयेभ्यः १००० छात्राणां च सहभागितायां संस्कृतसप्तमहोत्सवः आयोजित:। अवशिष्टानां मण्डलानां विवरणम् अधुना न प्राप्तमस्ति। तथापि आहत्य प्रायश: प्रदेशस्य २२००० छात्रै: १००० शिक्षकै: च संस्कृतसप्ताहमहोत्सवे सोत्साहं सहभागिता कृता।
प्रदेशस्य संस्कृतमहाविद्यालयेषु अपि आचरित: संस्कृतसप्ताहमहोत्सव:
हिमाचलप्रदेशस्य राजकीय- अराजकीय- संस्कृतमहाविद्यालयेषु उपाधिमहाविद्यालयेषु चापि संस्कृतसप्ताहस्य आचरणम् अभवत्। तेषु राजकीय- संस्कृतमहाविद्यालये फागली- शिमला इत्यत्र भाषा एवं संस्कृतिविभाग: हिमाचलप्रदेशद्वारा द्विदिवसीय राज्यस्तरीय- संस्कृतदिवसस्य कार्यक्रमे महाविद्यालयीयछात्राणां संस्कृतप्रतियोगिता: कविसम्मेलनं च विहितम्। अरविन्द- संस्कृत- महाविद्यालये करसोगे दशदिनात्मकस्य संस्कृतसम्भाषणशिविरस्य समारोप: अपि संस्कृतसप्ताहस्य सम्पूर्तिदिने अभवत्। तदा महाविद्यालयीयै: छात्रै: करसोगविपण्यां संस्कृतशोभायात्रा निस्सारिता। राजकीये महाविद्यालये सुजानपुरे अपि च धर्मशालाया: राजकीये शिक्षक-शिक्षामहाविद्यालये अपि महता उत्साहेन संस्कृतसप्ताहस्य आचरणम् अभवत्।
मण्ड्यां संस्कृतपरिषद: प्रदेशाध्यक्षेण जिलाध्यक्षेण च सहयोगाय उपनिदेशकप्रारंभिकशिक्षाया: अभिनन्दनं कृतम्
अस्मिन्नवसरे हिमाचल- राजकीय- संस्कृत- शिक्षक- परिषद: प्रदेशाध्यक्ष: डॉ. मनोजशैल: तथा संस्कृतशिक्षकपरिषद: जिलाध्यक्ष: लोकपाल: मण्डी जनपदस्य प्रारम्भिक- शिक्षा-उपनिदेशकस्य विजयकुमारगुप्तावर्यस्य संस्कृतसप्ताहस्य आयोजनाय सहयोगार्थं अभिनन्दनं प्रकटितवन्तौ अपि च सम्माननं कृतवन्तौ। डॉ. मनोज शैलः संस्कृतसप्ताहे सम्पूर्णे राज्ये संस्कृतक्रियाकलापानाम् आयोजनार्थं सर्वेषां संस्कृतशिक्षकाणां छात्राणां च धन्यवादं दत्त्वा भविष्ये अपि उत्साहेन भागं गृह्णन्तु इति कामनाम् अकरोत्।