CM Sukhu : अधिकारिण: कर्मचारिण: च मम परिवारस्य सदस्या: आर्थिकलाभं दातुं सर्वकारः प्रतिबद्धः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
विभिन्नानाम् अराजपत्रितकर्मचारिणां शिक्षकसंस्थानां च अधिकारिणः शनिवासरे अत्र मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना सह मिलित्वा स्वयाचनानां विषये सूचितवन्तः। मुख्यमन्त्री उक्तवान् यत् राज्यस्य सर्वे अधिकारिणः कर्मचारिण: च तस्य परिवारस्य सदस्याः सन्ति, तेषां सर्वासु वैधयाचनासु सहानुभूतिपूर्वकं विचारः भविष्यति। कर्मचारिणां महार्घतावृत्ते: अवशिष्टांशस्य च विमोचनस्य याचनाया: विषये मुख्यमन्त्री एकमासान्तरे राज्यस्य वित्तीयस्थितेः समीक्षां करिष्यामि इति अवदत्। सः २०२४ तमस्य वर्षस्य सितम्बरमासस्य अन्ते पुनः कर्मचारीसंस्थाभिः सह मिलितुं आश्वासनं दत्तवान्। सः अवदत् यत् राज्यसर्वकारः कर्मचारिभ्यः महार्घतावृत्ति: इत्यादीन् लाभान् विमोचयितुं प्रतिबद्धः अस्ति तथा च यथा यथा राज्यस्य आर्थिकदशा विकसिता तथा तथा सर्वे लाभाः कर्मचारिभ्यः मुक्ताः भविष्यन्ति। सः अवदत् यत् आर्थिकलाभं सुनिश्चित्य सर्वेषां लाभप्रदमण्डलानां निगमानाञ्च कर्मचारिभ्यः महार्घतावृत्ति: अवशिष्टांशं च विमोचयितुं निर्देशाः निर्गताः। सुक्खुः कर्मचारिणः आह्वानं कृतवान् यत् ते राज्यसर्वकारेण सह मिलित्वा राज्यस्य जनानां हितस्य रक्षणं कुर्वन्तु। सः अवदत् यत् वर्तमानराज्यसर्वकारः जनहिताय धनं व्यययिष्यति तथा च राज्यस्य राजस्वसम्पदां वर्धयितुं गम्भीराः प्रयत्नाः अपि क्रियन्ते। सः अवदत् यत् पूर्वभाजपासर्वकारेण कर्मचारिभ्यः महार्घतावृत्ते: अंशं स्थगितमासीत्। यदा तु वर्तमानराज्यसर्वकारेण कर्मचारिभ्यः सप्तप्रतिशतम् महार्घतावृत्ति: मुक्ताः। एतदतिरिक्तं ७५ वर्षाणाम् उपरि आयुषः पेन्शनभोक्तृभ्यः युगपत् अवशिष्टांश- भुक्तिः क्रियते।
वंशानुगत प्राप्ता देयता
मुख्यमन्त्री उक्तवान् यत् एनपीएस-रूप्यकाणां ९२०० कोटिरूप्यकाणि केन्द्रसर्वकारेण सह निरुद्धाणि, यदा तु केन्द्रसर्वकारेण १०,००० कोटिरूप्यकाणि आपदाश्रयार्थं स्वीकृतानि सन्ति, परन्तु एषा राशिः अपि अद्यापि न मुक्ता। राज्यसर्वकारेण पूर्वभाजपासर्वकारात् कर्मचारिभ्यः १०,००० कोटिरूप्यकाणां देयताः उत्तराधिकाररूपेण प्राप्ताः। मुख्यमन्त्री उक्तवान् यत् राज्ये पुरातनवृत्तियोजनायाः पुनर्स्थापनानन्तरं केन्द्रसर्वकारेण राज्यसर्वकारे बहवः प्रतिबन्धाः स्थापिताः।
रिक्तपदानि शीघ्रं पूरयिष्यन्ते
मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना उक्तं यत् ऋणसीमा ६६०० कोटिरूप्यकाणि निर्धारिता अस्ति, आगामिवित्तवर्षे ३५०० कोटिरूप्यकाणां राजस्वहानि- अनुदानं प्राप्स्यति, यदा तु पूर्वभाजपासर्वकारेण प्राप्तापेक्षया ७००० कोटिरूप्यकाणि न्यूना अस्ति। मुख्यमन्त्री कर्मचारिभ्यः आश्वासनं दत्तवान् यत् सर्वा: वेतनविसंगतयः दूरीकृताः भविष्यन्ति तथा च रिक्तपदेषु नियुक्तिः अपि शीघ्रमेव भविष्यति, येन सर्वे विभागाः सुचारुरूपेण कार्यं कर्तुं शक्नुवन्ति। पुरातनवृत्ते: पुनर्स्थापनार्थं कर्मचारीसंस्थानां अधिकारिणः मुख्यमन्त्रिणः प्रति गहनम् आभारं प्रकटितवन्तः।