Sanskrit Saptah 2024 : संस्कृतवातावरणेन संस्कृतसप्ताहस्य समापनम्।
बिजन-ढलवानविद्यालये संस्कृतस्य गतिविधीनाम् आयोजनम्
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
16 अगस्ततः आरब्धः संस्कृतसप्ताहस्य समारोहः मण्डीजनपदस्य बिजन-ढलवानस्य राजकीये उच्चविद्यालये 22 अगस्तदिनाङ्के सम्पन्न:। यस्मिन् काले छात्राः सम्पूर्णेसप्ताहे विविधाः संस्कृतकार्यक्रमाः आयोजितवन्तः। विद्यालयस्य संस्कृतशिक्षकः डॉ. मनोज शैल: अवदत् यत् छात्राः प्रत्येकं क्रियाकलापं संस्कृतेन प्रस्तुतवन्तः। समापनसमारोहे संस्कृत- सांस्कृतिकज्ञान- प्रश्नोत्तरी- प्रतियोगितायाः आयोजनं कृतं यस्यां सप्तदलानि भागं गृहीतवन्तः तथा च साक्षी- रीनु इत्यनयोः दलेन प्रथमं पुरस्कारं, प्रिया- रोहितयोः दलेन द्वितीयं पुरस्कारं, गौरव- तुषारयोः दलेन च तृतीय: पुरस्कारः प्राप्त:। तेन सह कक्षाश: संस्कृतगीतानां समूहगायनप्रतियोगिता आयोजिता। यस्मिन् अष्टमवर्गाय प्रथमपुरस्कारः, षष्ठवर्गाय द्वितीयपुरस्कारः, नवमवर्गाय च तृतीयपुरस्कारः प्राप्तः। विद्यालयस्य मुख्याध्यापिका मोनिका ठाकुर विजेतृभि: सह सर्वेभ्यः प्रतिभागिभ्यः पुरस्कारं प्रदत्तवती। सा अवदत् यत् एते पुरस्कारा: छात्राणां कृते संस्कृतशिक्षकेन डॉ. मनोजकुमारशैलेन स्वस्य स्वैच्छिककोषात् दत्ता:। विद्यालयस्य विकासे संस्कृतस्य प्रचारे च डॉ. मनोजकुमारशैलस्य विशेषं योगदानम् अस्ति। फलतः बुधवासरे संस्कृतिसदनमण्डी इत्यत्र आयोजितायां संस्कृतप्रतियोगितायां विद्यालयस्य छात्रः गौरवः संस्कृतभाषणे प्रथमस्थानं प्राप्तवान्। साक्षी करणठाकुरौ च संस्कृत- ज्ञान- प्रश्नोत्तरी प्रतियोगितायां द्वितीयपुरस्कारं प्राप्य विद्यालयस्य गौरवं वर्धितवन्तौ। छात्रेषु अभिव्यक्तिकौशलवर्धनार्थं एतादृशाः प्रयासाः प्रशंसनीयाः सन्ति। भविष्ये अपि प्रत्येकस्मिन् विषये प्रश्नोत्तरप्रतियोगिताना। आयोजनेन छात्राणाम् अभिव्यक्तिकौशलं वर्धयितुं प्रयत्नाः भविष्यन्ति।