NIRF Ranking 2024 : भारतीय प्रौद्योगिकीसंस्थानं मण्डी एनआईआरएफ- २०२४ इत्यस्मिन् ‘नवाचार’ वर्गे अष्टमं स्थानं प्राप्तवान्।
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:
भारतसर्वकारस्य शिक्षामन्त्रालयेन संचालितस्य राष्ट्रिय- संस्थागत- क्रमाङ्कन- रूपरेखायाः (एन. आई. आर. एफ.) २०२४ नवीनतावर्गे भारतीयप्रौद्योगिकीसंस्थानं मण्डी इत्यनेन अष्टमस्थानं प्राप्तम्। भारतसर्वकारस्य माननीयशिक्षामन्त्री धर्मेन्द्रप्रधानेन १२ अगस्त २०२४ दिनाङ्के नवीदिल्लीनगरे एनआईआरएफ इण्डिया रैङ्किंग इत्यस्य नवमसंस्करणस्य परिणामस्य घोषणा कृता। नवीनतावर्गे सफलतां विहाय अन्येषु क्षेत्रेषु अपि अस्य संस्थानस्य उल्लेखनीयप्रगतिः अभवत्। IIT Mandi इत्यनेन अस्मिन् वर्षे स्वस्य क्रमाङ्कनं सुदृढं कृत्वा अभियांत्रिकीवर्गे #31, समग्रवर्गे #72 तमे स्थाने च अभवत्। समागमं सम्बोधयन् धर्मेन्द्रप्रधानः अवदत् यत्, “अधिकारपारदर्शिता, निष्पक्षता च सुनिश्चित्य अस्य तन्त्रस्य अग्रे उन्नयनं कर्तुं शिक्षामन्त्रालयेन उच्चशिक्षासंस्थाभ्यः प्रतिक्रियाः निरन्तरं गृहीताः सर्वेषां सार्वजनिक- निजीक्संस्थानां राष्ट्रिय- संस्थागत- क्रमाङ्कन- रूपरेखायां सक्रियरूपेण भागं ग्रहीतुं, यतः एतेन न केवलं तेषां कार्यप्रदर्शनस्य मापनं कर्तुं साहाय्यं भविष्यति अपि तु उच्चशिक्षाक्षेत्रे निरन्तरोन्नयनं च चालयिष्यति।”
IIT Mandi इत्यस्य उपलब्धेः विषये टिप्पणीं कुर्वन् IIT Mandi इत्यस्य कुलसचिव: डॉ कुमारसंभव: पाण्डेय: अवदत् यत्- “वयं भारतीय प्रौद्योगिकीसंस्थानम् मण्डी इत्यस्य एनआईआरएफ- २०२४ इत्यस्मिन् ‘नवाचार’ वर्गे अष्टमं स्थानं प्राप्य उत्साहिता: स्म। इयं मान्यता अस्माकं छात्राणां संकायानां च मध्ये तथा च उद्यमशीलतायाः संस्कृतिं पोषयितुम् अस्माकं प्रतिबद्धतां प्रदर्शयति। वयं लक्ष्यान् अग्रे नेतुं देशस्य तकनीकीप्रगतौ नवाचार- पारिस्थितिकीतन्त्रे च योगदानं दातुं प्रतिबद्धा: स्म:।