Himsanskrit news Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्रिणा नरेन्द्रमोदिना कृषिक्षेत्रे अनुसंधान-नवाचारयोः आवश्यकतासु बलं प्रदत्तम्।
- प्रशासनेन प्रधानमन्त्री-सूर्य-गृह-निशुल्क-विद्युयोजनाया: (प्रधानमन्त्री सूर्य-घर-मुफ्त बिजली योजना) अन्तर्गतं प्रारूपित-सौर-ग्रामस्य कार्यान्वयनाय एकः परिचालन-दिङ्निर्देशः प्रख्यापितः।
- प्रशासनम् उक्तवत् यत् हस्तवेम-हस्तशिल्पयोः निर्यातं विक्रयं च संवर्धयितुं विभिन्नाः पदक्षेपाः उत्थापिताः।
- बिहारराज्ये जहानाबादजनपदस्य सिद्धेश्वर-नाथदेवालये आकस्मिकरूपेण जातेन जनसम्मर्देन सप्त जनानां मृत्युः अभवन्।
- गजानाम् संरक्षणं वर्धयितुम् सोमवासरे विश्वगजदिवसः समाचरित:। प्रधानमन्त्री नरेन्द्रमोदी गजानां कृते अनूकूलावासं सुनिश्चितुं प्रशासनस्य प्रतिबद्धतां पुनरावर्तितवान्।
हिमाचलवार्ता:
- भारतसर्वकारस्य शिक्षामन्त्रालयेन संचालितस्य राष्ट्रिय- संस्थागत- क्रमाङ्कन- रूपरेखायाः (एन. आई. आर. एफ.) २०२४ नवीनतावर्गे भारतीयप्रौद्योगिकीसंस्थानं मण्डी इत्यनेन अष्टमस्थानं प्राप्तम्। भारतसर्वकारस्य माननीयशिक्षामन्त्री धर्मेन्द्रप्रधानेन १२ अगस्त २०२४ दिनाङ्के नवीदिल्लीनगरे एनआईआरएफ इण्डिया रैङ्किंग इत्यस्य नवमसंस्करणस्य परिणामस्य घोषणा कृता।
- रामपुरे खण्डस्तरस्य स्वातन्त्र्यदिवसस्य उत्सवे अस्मिन् वर्षे सांस्कृतिककार्यक्रमाः न भविष्यन्ति। रामपुरस्य समेजे अधुनैव घटिताम् आपदां दृष्ट्वा प्रशासनेन एषः निर्णयः कृतः। सोमवासरे स्वातन्त्र्यदिवसस्य आयोजनस्य विषये उपमण्डलाधिकारिण: (एसडीएम) रामपुरस्य निशांततोमरस्य अध्यक्षतायां सभा आयोजिता।
- हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् प्रधानमन्त्रिकार्यालयस्य पक्षतः मुख्यसचिवेन सह वार्ता कृता। प्रधानमंत्रिणा नरेन्द्रमोदिना आपदाप्रभावितक्षेत्रं द्रष्टुं हिमाचलप्रदेशम् आगन्तुम् इच्छति स्म। परन्तु प्रतिकूलस्य वातावरणस्य कारणात् तस्य भ्रमणं स्थगितम्। सुक्खुः अवदत् यत् आगामिषु कालेषु प्रधानमन्त्री नरेन्द्रमोदी आपदाग्रस्तक्षेत्राणां निरीक्षणं कर्तुम् आगन्तुं शक्नोति।
- प्रारम्भिकशिक्षाविभागेन अगस्तमासस्य १० दिनाङ्कात् आरभ्यमाणानां क्रीडाप्रतियोगितानां कृते महत् निर्णयः कृतः अस्ति। अस्मिन् यत्र यत्र काङ्गड़ा-ऊना-मण्डी सहितेषु सर्वेषु मण्डलेषु क्रीडास्पर्धाः प्रचलन्ति, यदि वर्षाकारणात् किमपि समस्या अस्ति तर्हि तत्कालं प्रभावेण प्रतियोगितायाः स्थगितीकरणस्य आदेशाः निर्गताः सन्ति। तत्र उक्तं यत्, यावत् अग्रे आदेशः न भवति तावत् स्पर्धाः स्थगिताः भविष्यन्ति।