Shimla News : शिमलायां शतकोटिरुप्यकै: ऊर्जादक्षताया: आधुनिकव्यावसायिकसङ्कुलस्य निर्माणं भविष्यति
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशं हरित- ऊर्जाराज्यं कर्तुं हिमुडा राज्ये प्रथमं ऊर्जादक्षता- आधुनिक- व्यावसायिकसङ्कुलं निर्मास्यति। शिमलानगरस्य विकासनगरे प्रायः १०० कोटिरूप्यकाणां व्ययेन वाणिज्यिकसङ्कुलस्य निर्माणं भविष्यति। ऊर्जा-उपभोगं न्यूनीकर्तुं योजना- वास्तुकला- विद्यालयस्य सहकारेण अस्मिन् भवने आधुनिक- प्रौद्योगिकीनां उपयोगः भविष्यति। नगरनियोजन- आवास- तकनीकी- शिक्षामन्त्री राजेशधर्माणी दिल्लीनगरस्य योजना-वास्तुकला-विद्यालयेन सह ज्ञापनपत्रे हस्ताक्षरं कृतवान्। धर्माणी अवदत् यत् भवनस्य मानचित्रं मासत्रयेण अन्तः सज्जीकृत्य अस्मिन् वर्षे निर्माणकार्यं आरभ्यत इति लक्ष्यम् अस्ति। आधुनिकव्यापारसङ्कुलम् आगामिवर्षद्वये सज्जं भविष्यति। भवने कार्यालया:, खुदराशृङ्खला, बहु-उद्देशीयभवनं, भोजशाला, खाद्यकेन्द्रम् इत्यादयः आधुनिकसुविधाः भविष्यन्ति। भवनस्य सम्पूर्णं विद्युत् सौरमण्डलात् उपलभ्यते। सः अवदत् यत् एषा परियोजना सर्वकारस्य लक्ष्यानुसारं उच्च-भवनपदवीप्राप्त्यर्थं महत्त्वपूर्णा सिद्धा भविष्यति।
अस्मिन् अवसरे वास्तुशास्त्रविभागस्य योजना-वास्तुकला-विद्यालयस्य च राजीवगान्धी- अभियांत्रिकी- महाविद्यालयस्य, नागरोटा- काङ्गड़ाजनपदस्य च मध्ये तकनीकीज्ञानस्य सहभागिताया: कृते अपि ज्ञापनपत्रे हस्ताक्षरं कृतम्। राज्ये हिल- आर्किटेक्चरस्य विशेषज्ञपाठ्यक्रमस्य आरम्भस्य विषये अपि चर्चां कृतवान्। देहल्या योजना एवं वास्तुकलाविद्यालयस्य निदेशक: प्रो. वी. के. पॉल: इत्यनेन एमओयू हस्ताक्षरकार्यक्रमस्य कार्यविधि: कृता, अस्मिन् अवसरे हिमुडा इत्यस्य वरिष्ठाः अधिकारिणः अपि उपस्थिताः आसन्।