Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्रिणा नरेन्द्र-मोदिना रविवासरे नवदिल्लीस्थे भारत-कृषि अनुसन्धान-संस्थाने जलवायुसमेकित उत्पादाधारितानां सस्यानां नवोत्तरैकशत प्रकारकाणि सस्यबीजानि प्रख्यापितानि ।
- विदेशमन्त्रिणा डॉ. सुब्रह्मण्यम जयशंकरेण प्रतिपादितं यत् प्रशासनं भारत-मालदीव- अन्य-क्षेत्रीय-जनानां लाभाय मालदीव-देशेन सार्धं घनिष्ठ सम्बन्धान् प्रति वचनबद्धं वर्तते।
- गतदिवसे जम्मू-कश्मीरस्य अनंतनाग जनपदस्य कोकेरनाग क्षेत्रे आतंकवादिनः सुरक्षाबलयोः च मध्ये युद्धस्य काले द्वौ सैनिकौ एकः नागरिकः च मृत्युमुपगताः।
- बांग्लादेशस्य अन्तरिमसर्वकारस्य प्रमुखः मोहम्मदयुनुसवर्यः देशे अल्पसंख्यकसमुदायस्य उपरि आक्रमणानां घोरनिन्दां कृतवान्।
- उत्तराखण्डे ‘चारधाम यात्रा मार्गे विभिन्नेषु स्थानेषु भूस्खलनेन वाहनानां गमनागमनं बाधितम्।
- हिमाचलप्रदेशस्य विभिन्नेषु भागेषु जलाप्लावेन भूस्खलनेन च कतिपयक्षेत्रेषु जनाः पीडिताः।
- सप्ताहत्रयं यावत् रोमांचकारिणां क्रीडाकार्यक्रमाणां अनन्तरं पेरिस् ओलम्पिकक्क्रीडायाः रविवासरे रात्रौ सम्पन्नता जाता।
हिमाचलवार्ता:
- राज्यसर्वकारः सिरमौरमण्डलस्य पच्छाद् उपमण्डलस्य कोटला-बड़ोगे राज्यस्तरीयं आदर्श- व्यसननिवृत्ति- पुनर्वासकेन्द्रं स्थापयिष्यति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् एतत् व्यसननिवृत्तिकेन्द्रं मादकद्रव्यव्यसनेन पीडितानां जनानां सहायतां करिष्यति, तेषां च मादकद्रव्याश्रयात् पुनः प्राप्तुं पुनः आत्मनिर्भरतया सह समाजे सुखदं स्वस्थं च जीवनं यापयितुं साहाय्यं करिष्यति।
- हिमाचलप्रदेशं हरित- ऊर्जाराज्यं कर्तुं हिमुडा राज्ये प्रथमं ऊर्जादक्षता- आधुनिक- व्यावसायिकसङ्कुलं निर्मास्यति। शिमलानगरस्य विकासनगरे प्रायः १०० कोटिरूप्यकाणां व्ययेन वाणिज्यिकसङ्कुलस्य निर्माणं भविष्यति। एतदर्थं नगरनियोजन- आवास- तकनीकी- शिक्षामन्त्री राजेशधर्माणी दिल्लीनगरस्य योजना-वास्तुकला-विद्यालयेन सह ज्ञापनपत्रे हस्ताक्षरं कृतवान्।
- हिमाचलप्रदेशे रविवासरात् अगस्तमासस्य १६ दिनाङ्कपर्यन्तं राज्यस्य अधिकांशक्षेत्रेषु वर्षाणां पीतसचेतना निर्गता अस्ति। प्रचण्डवृष्ट्या ऊनायां इनोवाकारयानं प्रक्षालितम्, ११ जनाः मृताः, सिरमौरे हनुमानमन्दिरं प्रक्षालितम्। अनूनैव राज्ये २८८ मार्गाः निरुद्धा: सन्ति, पञ्चभिः राष्ट्रियराजमार्गैः सह सम्पर्कः अपि छिन्न: अस्ति।
- हिमाचलप्रदेशे मानसूनस्य गतिः प्राप्ता अस्ति। अधुना किन्नौरस्य खाब-क्षेत्रे मेघ-विस्फोटस्य कारणात् बस्पा-नद्याः जलस्तरः वर्धितः अस्ति। प्रचण्डवृष्ट्या राज्ये विनाशः जातः। हिमाचलस्य अधिकांशेषु भागेषु विगतदिवसेभ्य: सतत् वर्षा प्रचलति। ऋतुविज्ञानकेन्द्रेण आगामिषड्दिनानां कृते ‘पीतसचेतना’ प्रसारिताता, यस्मिन् काले प्रचण्डवृष्टिः भवति।