Manish Sisodia Bail : विक्रमादित्यसिंह: देहल्या: उपमुख्यमन्त्रिण: मुक्ते: स्वागतं कृतवान्
हिमसंस्कृतवार्ता: – शिमला।
लोकनिर्माणमन्त्री विक्रमादित्यसिंहः सर्वोच्चन्यायालयात् प्रत्याभूतिप्राप्त्यर्थं देहल्या: उपमुख्यमन्त्रिणे मनीषसिसोदिया इत्यस्मै हृदयेन अभिनन्दनं दत्तवान्। विक्रमादित्यसिंहः सामाजिकमाध्यमेषु लिखितवान् यत् ईडी, सीबीआई च केन्द्रसर्वकारस्य बन्धकश्रमिकौ जातौ। सर्वोच्चन्यायालयेन उक्तं यत् कस्यापि व्यक्ते: प्रमाणं विना १८ मासान् यावत् कारागृहे स्थापनं मानवाधिकारस्य उल्लङ्घनम् अस्ति, यस्य आधारेण सः अद्य मुक्तः अभवत्। विक्रमादित्यसिंहः लिखितवान् यत् सिसोदियायाः त्रुटिः अस्ति यत् सः दिल्लीनगरस्य विद्यालयान् देशस्य सर्वोत्तमान् कर्तुं प्रयतते स्म, यत् केभ्यः जनेभ्यः न रोचते स्म । विक्रमादित्य: सामाजिकमाध्यमे स्वस्य लेखस्य अन्ते अलिखत् – सत्यमेव जयते।
Deputy CM HP : सोनिया गांधी इत्यनया सह मिलितवान् मुकेशः अग्निहोत्री, प्रचण्डवृष्ट्या हानिविषये सूचितः
उपमुख्यमन्त्री मुकेश अग्निहोत्री शुक्रवासरे सायं नवीनदिल्लीनगरे पूर्वकाङ्ग्रेसस्या राष्ट्रीयाध्यक्षा सोनियागान्धी इत्यनया सह मिलितवान्। शिष्टाचारसमये मुकेश अग्निहोत्री सोनिया गान्धीं सर्वकारस्य, सङ्घटनस्य च कार्याणि सूचितवान् । जलशक्ति एवं परिवहनविभागस्य योजनानां विषये अपि सूचना: अयच्छत्। असौ राज्ये प्रचण्डवृष्ट्या क्षतिविषये अपि सूचितवान्।