Cloudburst Samej : सुन्नीबन्धस्य दोघरीक्षेत्रे चत्वारि मृतशरीराणि प्राप्तानि
हिमसंस्कृतवार्ता: – शिमला।
शुक्रवासरे प्रातः समेज-दुःखदघटनायाः अनन्तरं प्रचnnnnnलति अन्वेषण-कार्यक्रमस्य नवमे दिने सुन्नी-जलबन्धस्य समीपे दोघयी-क्षेत्रे चत्वारि मृतशरीराणि प्राप्तानि सन्ति। प्रथमदृष्टया द्वे शरीरे पुरुषयो:, एकः बालिकायाः च, यस्याः वयः १४ तः १५ वर्षाणि यावत् इति कथ्यते । तेन सह अन्यः शवः विकृतस्थितौ प्राप्तः । इदमपि स्त्रियाः इति उच्यते। इयं सूचना उपायुक्त: शिमला अनुपम कश्यप अददत्। सः शरीरं विकृतम् इति अवदत्। शवा: उद्धारिताः सन्ति, तदनन्तरं तेषां शवपरीक्षायै चिकित्सालयं प्रेषिताः । एतेन सह जिलाप्रशासनं कुल्लू इत्यपि एतस्य विषये सूचितम् अस्ति। एतान् समाविष्ट्य अधुना यावत् मृतशरीराणां संख्या १४ यावत् अभवत् । सतलुजप्रवाहे कुलम् ४३ जनाः, समेजतः ३६, कुल्लुनगरस्य बागीपुलतः ७ जनाः लुप्ता: अभवन् ।
समेज त्रासदी – मातुः शवः प्राप्तः, परन्तु बाला: अधुनापि अदृश्याः
हिमसंस्कृतवार्ता: – शिमला। रामपुरसमेजस्य बालै: सह लुप्ताया: कल्पनायाः शवः अन्ततः प्राप्तः, परन्तु दुर्घटनायाः अन्धकाररात्रौ तया सह आसन् कल्पनायाः बालकद्वयम् अद्यापि अदृश्यम् अस्ति। शुक्रवासरे समेज-दुःखदघटनायाः अनन्तरं प्रचलति अन्वेषण-कार्यक्रमे नोगली इत्यत्र एकस्याः महिलायाः शवः प्राप्त: अभवत् । उद्धारदलेन शवस्य ग्रहणं कृत्वा जयसिंहस्य कल्पनाकुमारी पत्नी इति परिचयः कृतः।
कल्पना ग्रीनको जल परियोजनायां कार्यं कुर्वती आसीत् । शवस्य परीक्षणार्थं रामपुर-चिकित्सालयं प्रेषितम्। कल्पनायाः उभौ बालकौ अद्यापि अदृश्यौ स्तः। एतस्य मृतशरीरस्य आविष्कारेण कल्पनायाः भर्तुः आशा अपि अन्तर्धानं जातम् यत् माता च बालकाः च जीविताः प्राप्यन्ते इति । अस्याः दुःखदघटनायाः एकदिनपूर्वं जुलैमासस्य ३१ दिनाङ्के कल्पना सामाजिकमाध्यमेषु एकं रील इति कृतवती आसीत्, यत् अपि प्रसारितम् अभवत्, यस्मिन् सा कदापि मृत्युः आगन्तुं शक्नोति इति सन्देशं दत्तवती आसीत् तदा कल्पना न जानाति स्म यत् सामाजिकमाध्यमेषु भ्रमिताया: घटनायाः प्रभावः तस्याः वास्तविकजीवने अपि भविष्यति इति। सामाजिकमाध्यमेषु तस्याः बहूनि चलच्चित्राणि सन्ति येषु सा स्वस्य लघुबालकद्वयेन सह दृश्यते। अधुना कल्पनायाः कुटुम्बे केवलं तस्याः पतिः जयसिंहः एव अवशिष्टः अस्ति । कल्पना अत्र ग्रीनको जलप्रकल्पे लेखाधिकारीरूपेण कार्यं कुर्वती आसीत्, भाटककक्षे निवसति स्म ।