HP Vidhansabha : विधानसभासमित्याः सदस्याः डिजिटलरूपेण सभासु सम्मिलितुं शक्नुवन्ति – कुलदीपपठानिया
सभापतिः अधिकारिभ्यः निर्दिष्टवान्
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य विधानसभाध्यक्षः कुलदीपसिंहपठानिया विधानसभा- सचिवालयस्य समितीनां कार्यकरणं सुदृढं, तर्कसंगतं, प्रभावी च भवतु एतदर्थं मुख्यसमितिकक्षे समितीनां अधिकारिभिः सह गोष्ठीं कृतवान्। विधानसभाध्यक्ष: अगस्तमासस्य ३ दिनाङ्के समितीनां अध्यक्षैः सह महत्त्वपूर्णं समागमं कृतवान् अस्ति। विधानसभाध्यक्षः अवदत् यत् सः समितिकार्यं प्रभावी, तर्कसंगतं च कर्तुम् इच्छति। सः अवदत् यत् सः समितिकार्य्ये दक्षतां तीव्रताम् आनेतुं समर्थः अस्ति, येन लम्बितजनहितकार्यस्य विषये सम्बन्धितविभागेभ्यः कठोरसंज्ञानं गृहीतुं शक्यते। पठानिया उक्तवान् यत् अधुना समितिसदस्याः डिजिटलरूपेण अपि सभासु सम्मिलितुं शक्नुवन्ति। अधिकारिभ्यः निर्देशः दत्तः यत् ते तत्क्षणमेव ऑनलाइन-सुविधायाः सङ्गतिं कर्तुं उपकरणानां व्यवस्थां कुर्वन्तु, येन कोरम-अपूर्ति-कारणात् समिति-कार्यं बाधितं न भवति। पठानिया उक्तवान् यत् अधिकारिणः स्वस्वसमित्याः कृते पृथक् पृथक् ई-मेल-पत्राणि अपि निर्मातव्यानि, येन सदस्येभ्यः व्हाट्सएप-ई-मेल-माध्यमेन आवश्यका: सूचना: प्रेषयितुं शक्यन्ते। पठानिया समितिपदाधिकारिभ्यः निर्देशं दत्तवान् यत् नवनिर्वाचितसदस्याः समित्या: कार्याणि, क्रियाकलापाः, सदस्यानां के अधिकाराः च सन्ति इति विषये अवगताः भवेयुः। एतेन समितिकार्य्ये तेषां रुचिः वर्धते, समितिसभासु ते अधिकं भागं ग्रहीतुं शक्नुवन्ति। पठानिया अवदत् यत् समितिपदाधिकारिणः, खण्डाधिकारिणः च स्वयं पूर्णतया सज्जाः सन्तः सभासु आगच्छेयुः, समितिसभायाः प्रश्नावलीः अपि सज्जीकर्तव्या। अस्मिन्नवसरे विधानसभासचिव: यशपाल शर्मा, विधानसभाया: संयुक्तनिदेशक: हरदयाल भारद्वाज:, समिति- अधिकारी बेगरामकश्यप:, राकेशठाकुर:, रीता शर्मा, मंजू शर्मा, संतोखसिंह:, जितेन्द्रसिंहकंवर:, संजयठाकुर:, बेनीप्रसाद: एवं समितीनां अनुभागाधिकारिण: उपस्थिता: अभवन्।