HP Education Department : राज्यस्य ५६७ विद्यालयेभ्यः चतुर्थश्रेणी-कर्मचारीणां बहूद्देश्यीयकर्मचारिणां प्रतिस्थापनस्य प्रक्रिया आरब्धा
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशे छात्राणां शून्यसंख्यायुक्तानां ९९ विद्यालयानां तथा च ४६८ विद्यालयानां चतुर्थश्रेणीकर्मचारिणां, बहूद्देश्यीयकर्मचारिणां, जलवाहकानां च प्रतिस्थापनस्य प्रक्रिया अन्येषु समीपस्थेषु विद्यालयेषु आरब्धा अस्ति। बुधवासरे प्राथमिकशिक्षानिदेशालयेन सर्वेभ्यः जिला-उपनिदेशकेभ्यः पत्रं निर्गतं, अन्यत्र कर्मचारिणां नियुक्तिः कर्तुं निर्देशाः प्रसारिताः। एतेषु विद्यालयेषु कार्यं कुर्वन्तः शिक्षकाः आवश्यकतायुतानां विद्यालयेषु प्रतिस्थापनस्य प्रक्रिया अपि अद्यत्वे प्रचलति।
अधुना राज्यमन्त्रिमण्डलेन शून्यछात्रसङ्ख्यायाः ८९ प्राथमिकविद्यालयाः १० माध्यमिकविद्यालयाः च पिधातुं निर्णयः कृतः अस्ति। एतदतिरिक्तं पञ्च वा न्यूनाधिकछात्रसङ्ख्यायुक्ता: ४०१ प्राथमिकविद्यालया: ६७ माध्यमिकविद्यालया: च द्वित्रिकिलोमीटर्पर्यन्तं त्रिज्यायां विद्यालयेषु विलीनीकरणस्य निर्देशाः दत्ताः सन्ति। अस्यां श्रृङ्खलायां अधुना शिक्षानिदेशालयेन एतेषु विद्यालयेषु कार्यं कुर्वतां कर्मचारिणां परिवर्तनस्य प्रक्रिया आरब्धा अस्ति।