International Minjar Fair Chamba: चम्बा राज्यस्य प्रथमं हरितहाइड्रोजन आधारितं गतिशीलतास्थानकं प्राप्स्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे शिमलातः आभासीयमाध्यमेन अन्ताराष्ट्रीय- मिञ्जरमेला- समापनसमारोहस्य अध्यक्षतां कृतवान्। अस्मिन् अवसरे सः १२०.४४ कोटिरूप्यकाणां विविधविकासपरियोजनानाम् उद्घाटनं, आधारशिला: च अस्थापयत्। अस्मिन् अवसरे विधानसभाध्यक्षः कुलदीपसिंह पठानिया अपि मुख्यमन्त्रिणा सह आसीत्। मुख्यमन्त्री प्रतिकूलवातावरणस्य कारणात् मिञ्जरमेलासमापनसमारोहे उपस्थातुं न शक्तवान् इति उक्तवान्। मेलापकस्य सफलतया आयोजनार्थं जनानां, मण्डलप्रशासनस्य च प्रयत्नस्य प्रशंसाम् अकरोत्। प्रायः १४ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य चम्बानगरे हरितहाइड्रोजन आधारितं गतिशीलतास्थानकस्य (ग्रीन- हाइड्रोजन- मोबिलिटी स्टेशन) प्रायोगिक- परियोजनायाः आधारशिला स्थापयित्वा मुख्यमन्त्री उक्तवान् यत् चम्बा हिमाचलप्रदेशस्य प्रथमं मण्डलं भवितुम् अर्हति यत् एतादृशी परियोजना प्राप्नोति। एषा महत्त्वपूर्णा हरितपरिकल्पना वर्तमानराज्यसर्वकारस्य नेतृत्वे राष्ट्रियजलविद्युत्निगमेन (NHPC) निर्मितं भविष्यति, अगस्त २०२५ यावत् च सम्पन्नं भविष्यति। मुख्यमन्त्री उक्तवान् यत् एषा परियोजना एनएचपीसी-संस्थायाः चमेरा- ३- विद्युत्केन्द्रस्य समीपे स्थास्यति, ऊर्जा- आवश्यकतानां पूर्तये ३०० किलोवाट-भारस्य ग्रिडसम्बद्धं सौरविद्युत्संस्थानं च अन्तर्भवति। संयंत्रे प्रतिदिनं २० किलोग्रामं हरितहाइड्रोजनस्य उत्पादनं भविष्यति, यत् हरितहाइड्रोजनबसयानस्य ईंधनार्थं ४५० बारं अथवा अधिकप्रभावे संगृहीतं भविष्यति। एतदतिरिक्तं बसयानानां ईंधनपूरणस्य सुविधायै हाइड्रोजनवितरक-युनिट अपि स्थापिता भविष्यति। सः अवदत् यत् एषा अपूर्वपरियोजना क्षेत्रे प्रथमवारं हरितहाइड्रोजनबसयानानां प्रवर्तनं करिष्यति, यस्य उद्देश्यं भारतस्य दूरस्थेषु क्षेत्रेषु हरित- हाइड्रोजनविषये जागरूकतां वर्धयितुं वर्तते। मुख्यमन्त्री उक्तवान् यत् एनएचपीसी इत्यनेन चम्बा-जनपदस्य हरित- हाइड्रोजन- बस- क्रयणस्य निविदाप्रक्रिया आरब्धा एव, यत् प्रायोगिकपरियोजनायाः कार्यानुष्ठानानन्तरं तस्य उपलब्धता सुनिश्चिता भवति। चम्बामण्डले अस्याः परियोजनायाः आरम्भेण राजस्वं वर्धते, रोजगारस्य अवसराः च सृज्यन्ते, येन क्षेत्रस्य आर्थिकविकासे योगदानं भविष्यति इति अपेक्षा अस्ति। वर्तमानराज्यसर्वकारस्य लक्ष्यं हिमाचलप्रदेशं ३१ मार्च २०२६ पर्यन्तं हरित ऊर्जाराज्ये परिणतुं वर्तते, यत्र याचनापूर्तये हरित ऊर्जायाः सदुपयोगं कर्तुं केन्द्रितम् अस्ति। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः अपि अस्याः दृष्टेः अनुरूपं हरित-उद्योगस्य प्रचारं कुर्वन् अस्ति। अस्याः उल्लेखनीयाया: हरितहाइड्रोजन- परियोजनायाः अतिरिक्तं मुख्यमंत्री सुक्खुः अन्येषां विविधानां विकासपरियोजनानां उद्घाटनम्, आधारशिला: च अकरोत्। सः ३५.३८ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य चम्बानगरे लघुसचिवालयस्य भवनस्य, ११.१२ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य पुलिसग्राउण्ड चम्बा इत्यत्र इण्डोर- क्रीडाङ्गणस्य च शिलान्यासं कृतवान्। ५ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य चम्बानगरे पार्किङ्ग-सह-वाणिज्यिकसङ्कुलस्य निर्माणकार्यमपि प्रारब्धवान्, चम्बापार्किङ्गस्य निर्माणं १८ मासाभ्यन्तरे सम्पन्नं भविष्यति इति च अवदत्। सरुक्षेत्रस्य जिला- शैक्षिकप्रशिक्षणसंस्थानस्य (DIET) बहु- उद्देश्यभवनस्य पुस्तकालयस्य च शिलान्यासः कृतः यस्य निर्माणं ४.६४ कोटिरूप्यकाणां व्ययेन भविष्यति। मुख्यमन्त्री पं. जवाहरलालनेहरू मेडिकल कॉलेज एण्ड हॉस्पिटल (JLNMC&H), चम्बा इत्यत्र नवनिर्मितस्य ट्रॉमा केयर केन्द्रस्य अपि उद्घाटनं कृतवान् यस्य व्ययः १०.३८ कोटिरूप्यकाणां अभवत्। अस्मिन् एव चिकित्सालये विद्युत् उपकेन्द्रस्य अपि उद्घाटनं कृतम्, यस्य व्ययः २०.५८ कोटिरूप्यकाणां वर्तते। एतदतिरिक्तं ११.५७ कोटिरूप्यकाणां व्ययेन राजकीय-उपाधिमहाविद्यालय चम्बा इत्यत्र निर्मितस्य पीजी-खण्डस्य, तीसा- क्षेत्रस्यस्य भगीगढे १.६८ कोटिरूप्यकाणां व्ययेन निर्मितस्य प्राथमिकस्वास्थ्यकेन्द्रस्य (पीएचसी) च भंजरारु (तीसा) इत्यत्र ६.११ कोटिरूप्यकाणां व्ययेन निर्मितस्य नूतनस्य बसस्थानकस्य च उद्घाटनं कृतवान्। सः अवदत् यत् चम्बा हेलीपोर्टस्य शिलान्यासः शीघ्रमेव भविष्यति तथा च क्षेत्रे विमानयानानां कृते अनुदानं प्रदत्तं भविष्यति तदतिरिक्तं चम्बा-चुवाड़ी-जोत कन्दराया: निर्माणार्थं परामर्शदातृसेवानां कृते ४ कोटिरूप्यकाणि विनियोजितानि सन्ति। सुक्खुः चम्बामण्डलस्य सर्वा: विकासात्मका: आवश्यकता: चरणबद्धरूपेण पूरयितुम् आश्वासनं दत्तवान्। सः अवदत् यत् चम्बा चिकित्सा- महाविद्यालयाय १६५ कोटिरूप्यकाणि विनियोजितानि सन्ति, तस्य भवनस्य निर्माणं शीघ्रमेव सम्पन्नं भविष्यति। वैद्यस्य, पैरामेडिकलकर्मचारिणां च सर्वाणि पदानि पूरयिष्यन्ते।